ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
ततो ब्रूमः संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्याकस्मात् ? नानाभावात्नाना ह्येतानि पञ्चविंशतिस्तत्त्वानिनैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्तेथोच्येतपञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथापञ्च सप्त वर्षाणि ववर्ष शतक्रतुःइति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यतेअयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात्परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात्प्रयोगान्तरे पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्समस्तत्वाच्च वीप्सापञ्च पञ्चइतितेन पञ्चकद्वयग्रहणं पञ्च पञ्चेति पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम्पञ्च पञ्चकाःइति, उपसर्जनस्य विशेषणेनासंयोगात्न्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्नेति ब्रूमःयुक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां पञ्च पञ्चजना इति विशेषणं भवेत्भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषःतस्मात्पञ्च पञ्चजना इति पञ्चविंशतितत्त्वाभिप्रायम्अतिरेकाच्च पञ्चविंशतितत्त्वाभिप्रायम्अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाःआत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्इति सप्तमीसूचितस्यतमेव मन्य आत्मानम्इत्यात्मत्वेनानुकर्षणात्आत्मा चेतनः पुरुषः; पञ्चविंशतावन्तर्गत एवेति तस्यैवाधारत्वमाधेयत्वं युज्यतेअर्थान्तरपरिग्रहे तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येततथाआकाशश्च प्रतिष्ठितःइत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम्कथं संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेःकथं तर्हि पञ्च पञ्चजना इति ? उच्यतेदिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासःततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, साङ्ख्यतत्त्वाभिप्रायेणते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यतेपञ्चजना नाम ये केचित् , ते पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते —

तत इति ।

श्रुत्युक्तसङ्ख्ययाऽपेक्षितसङ्ख्येयविशेषार्पणं स्मृतेर्युक्तं तयोर्मूलमूलित्वादित्याह —

कस्मादिति ।

सौत्रं हेतुमुपादाय व्याचष्टे —

नामेति ।

नानात्वमेव न विरुद्धमित्याशङ्क्याभिप्रेतं नानात्वमाह —

नैषामिति ।

नहि सत्त्वरजस्तमोमहदहङ्काराणां क्रियागुणजातीनामन्यतमस्तन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानामुक्तो धर्मः सम्भवति, आकाशस्य पृथगुक्तेरप्रवेशात् । एवं रसनादिष्वपि पञ्चशः । साधारणधर्मवैधुर्यमिति भावः ।

किं तेनानुपयोगिनेत्याशङ्क्याह —

येनेति ।

पञ्चविंशतिसङ्ख्यान्तराले पञ्चानामपि पञ्चसङ्ख्यानां भावात्तथोक्तिरित्याशङ्क्याह —

नहीति ।

त्रयस्त्रिंशद्देवा इति महासङ्ख्यामष्टौ वसव इत्यवान्तरसङ्ख्या साधारणधर्माधीना, तथात्रापि न साधारणधर्मादृते महासङ्ख्यायामवान्तरसङ्ख्यासिद्धिरित्यर्थः ।

अपरसङ्ख्यापूर्वत्वात्परसङ्ख्यायास्तत्पौर्वापर्यलक्षणप्रत्यासत्त्या परसङ्ख्यालक्षणार्थमपरसङ्ख्योक्तिरिति पूर्वपक्षदेशीयश्चोदयति —

अथेति ।

तदेवोदाहरणेन स्फोरयति —

यथेति ।

असमासमङ्गीकृत्य पञ्चशब्दद्वयदर्शनेऽपि पञ्चसङ्ख्याद्वयरूपावान्तरसङ्ख्यया पञ्चविंशतिलक्षणमहासङ्ख्योपलक्ष्यत्वे श्रुतिसम्भवे लक्षणा न युक्तेति परिहरति —

तदिति ।

किञ्च पञ्चशब्दस्य जनशब्देन समस्तत्वात्पञ्चसङ्ख्याद्वयासिद्ध्या तद्वारा पञ्चविंशतिसङ्ख्यापि न सिध्यतीत्याह —

परश्चेति ।

समस्तत्वे हेतुमाह —

पारिभाषिकेणेति ।

अन्तानुदात्तस्वरो भाषितग्रन्थसिद्धोऽत्र पारिभाषिकः । तथाहि - प्रथमोऽस्मिन्मन्त्रे पञ्चशब्दो भवत्युदात्तः, द्वितीयः सर्वानुदात्तः, जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासमन्तरेणान्त्यस्याकारस्योदात्तत्वमितरेषां चानुदात्तत्वं, ‘समासस्य’ इति सूत्रेण समासस्यान्तोदात्तत्वविधानात् । ‘अनुदात्तं पदमेकवर्जम्’ इति च सूत्रेणोदात्तः स्वरितो वा यस्मिन्पदे विधीयते तदेकं हित्वा शिष्टस्यानुदात्तत्वं स्मर्यते । एवमन्तोदात्तस्वरबलात्तत्र समासो निर्धारितः । भाषिके तु शतपथब्रह्मणस्वरविधायकग्रन्थे ‘स्वरितोऽनुदात्तो वा’ इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्रह्मणावस्थायामुदात्तो भवतीत्यपवादः स्वीकृतः । ततश्चान्त्यादाकारादितरेषामनुदात्तादीनां ब्राह्मणदशायामनुदात्तत्वं प्राप्तं ‘उदात्तमनुदात्तमनन्त्यम्’ इति सूत्रेण मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तदत्राकारो नकारादुपरितनः सन्नाकाशश्चेत्यनेन लग्नतयोच्चार्यमाणोऽनुदात्तो भवति स चैवमन्तानुदात्तस्वरः पारिभाषिकः । अन्तोदात्तो भाषिक इति पक्षे त्वध्ययनविरोधः । तेन पारिभाषिकेण स्वरेणैकपदत्वनिश्चयादसमासासिद्धिरिति भावः ।

अन्यत्र चैवंविधप्रयोगस्यैकपदत्वनिश्चयादिहापि तत्सामान्यादेकपदतेति समासे हेत्वन्तरमाह —

प्रयोगान्तरे चेति ।

‘आज्यमसि’ इत्याज्यस्याधिकारादाज्यं सम्बोध्य ‘पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि’ इति तैत्तिरीयकश्रुतेः, पञ्चानां पञ्चजनानां देवताविशेषणानां कृते यन्त्रवद्व्यवस्थितं यन्मदीयं शरीरं तदेव धर्त्रमैहिकामुष्मिकभोगधारणसमर्थं तदवैकल्यार्थं गृह्णामीति यजमानोक्तिः ।

समासेऽपि किं स्यात् , तत्राह —

समस्तत्वाच्चेति ।

वीप्साभावे पञ्चसङ्ख्याद्वयासिद्धेस्तद्वारा पञ्चविंशतिसङ्ख्याया न लक्ष्यतेत्यर्थः ।

किं चासमासेऽपि पञ्चशब्दद्वयप्रयोगे दशानामेव लाभान्न साङ्ख्यस्मृतिप्रत्यभिज्ञेत्याह —

न चेति ।

पञ्च पञ्चेति पञ्चकद्वयग्रहेऽपि दशैव तत्त्वानि सिध्यन्ति न पञ्चविंशतेस्तत्त्वानां प्रत्यभिज्ञेत्यर्थः । यद्वा समास एव पञ्चपञ्चेति । पञ्चकद्वयाग्रहान्न लक्षणयापि पञ्चविंशतिसङ्ख्याधीरित्यर्थः ।

नन्वसमासेऽपि वीप्सां हित्वा दण्डिन्यायेन जायमानाजायमानसाधारणजनशब्दोक्ततत्त्वविशेषणीभूतपञ्चसङ्ख्याविशेषणत्वादाद्यपञ्चसङ्ख्यायाः संख्यीयपञ्चविंशतिधीरिति, नेत्याह — न चेति । शुक्लादिशब्दवत्पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यपरत्वाद्गुणभूतसङ्ख्याया न सङ्ख्यान्तरेण विशेषणम् । तथा सति विशेष्येण द्रव्येण विशेषणेन च सङ्ख्यया युगपदाकृष्टा सङ्ख्या नैकेनाप्यन्वियादित्याह —

उपसर्जनस्येति ।

न खलूपसर्जनमुपसर्जनान्तरेण साक्षादेव सम्बध्यते, प्रधानानुयायित्वात्तेषां मिथःसङ्गत्ययोगात् । अतः सङ्ख्ययोर्विशेषणविशेष्यतया न पराभीष्टसङ्ख्याधीरित्यर्थः ।

नानाभावेन दूषितमपि परमपूर्वपक्षिणं सङ्ख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुमुत्थापयति —

नन्विति ।

प्राप्तपञ्चसङ्ख्याकानां जनानां पञ्चसङ्ख्यया विशेषणे पञ्चविंशतितत्त्वधीरित्येतद्दृष्टान्तेन साधयति —

यथेति ।

जायन्त इति जनाः पञ्च च ते जनाश्चेति पञ्चजना इति यौगिकत्वमुपेत्य प्रत्याह —

नेतीति ।

दृष्टान्ते सङ्ख्यान्तराकाङ्क्षां दर्शयति —

युक्तमिति ।

द्विगुसमासेन समाहाराभिधानात्पदान्तरोक्तसङ्ख्यया समाहारोऽवच्छेत्तुं युक्तः । उत्पत्तिशिष्टया तुल्यपदस्थसङ्ख्यया समाहारिणः पूला अवच्छिद्यन्ते, तेन पञ्चपूलीत्यत्रास्त्याकाङ्क्षेति विशेषणविशेष्यधीरित्यर्थः ।

दार्ष्टान्तिके नैवमाकाङ्क्षेत्याह —

इहेति ।

पञ्चजना इत्यत्र डीबन्तत्वाश्रुत्या समाहारादृष्टेर्जनानां च स्वगतसङ्ख्यावच्छिन्नत्वान्न सङ्ख्यान्तराकाङ्क्षेति कुतो विशेषणविशेष्यतेत्यर्थः ।

जनानामुत्पत्तिशिष्टसङ्ख्यावरुद्धानां शब्दान्तरोक्तसङ्ख्यानवरोधेऽपि पञ्चसङ्ख्यायाः सङ्ख्यान्तरानवरुद्धत्वात्तयावरोधः स्यादित्याशङ्क्य नोपसर्जनन्यायमवतारयति —

भवदिति ।

इष्टापत्तिमाशङ्क्याह —

तत्रेति ।

विशेषणविशेष्ययोरेव योगो न विशेषणयोरन्योपसर्जनत्वादित्युक्तमित्यर्थः ।

नानाभावादिना सिद्धमुपसंहरति —

तस्मादिति ।

पञ्चपञ्चजनशब्दो न पञ्चविंशतितत्त्ववाचीत्यत्र सूत्रावयवं हेत्वन्तरमाह —

अतिरेकाच्चेति ।

तदेव स्फोरयति —

अतिरेको हीति ।

तत्रात्मकृतसङ्ख्यातिरेकं विवृणोति —

आत्मेति ।

इहेति मन्त्रोक्तिः ।

यच्छब्दस्य सर्वनामत्वेन साधारण्यात्कथं तस्मादात्मधीरित्याशङ्क्याह —

यस्मिन्निति ।

आधारत्वेनात्मनिर्देशेऽपि तस्य तत्त्वान्तर्भावान्नातिरेकः स्यादित्याशङ्क्याह —

आत्मा चेति ।

आधारानन्तर्भावे दोषमाह —

अर्थान्तरेति ।

आत्मनेवाकाशेनापि सङ्ख्यातिरेकं दर्शयति —

तथेति ।

स हि तत्त्वेष्वन्तर्भूतो न वेति विकल्प्याद्ये दोषमाह —

आकाशश्चेति ।

द्वितीयं प्रत्याह —

अर्थान्तरेति ।

नच सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ पृथगुक्तौ, तत्र पञ्च पञ्चजना इति पञ्चविंशतितत्त्वानां पृथगुक्तेरपसिद्धान्तात् । गुणानां मिथोभेद आधारत्वेनात्मनिष्कर्षेऽपि नभसो नाधेयान्तरेभ्यो युक्ता पृथगुक्तिरिति भावः ।

किञ्च पञ्चविंशतिसङ्ख्यादृष्टावपि न साङ्ख्यीयतत्त्वधीः, सङ्ख्येयमात्रेण सङ्ख्याया युक्तत्वादित्याह —

कथं चेति ।

कथं तत्त्वानामश्रुतत्वं जनशब्देन श्रुतत्वात् , तत्राह —

जनेति ।

सङ्ख्यैव सङ्ख्येयं कल्पयन्ती साङ्ख्यीयतत्त्वानि विषयीकरिष्यतीत्यर्थोपपत्तिमाशङ्क्याह —

अर्थान्तरेति ।

किं तर्हि तदर्थान्तरं, येन वाक्यस्योपपत्तिरिति पृच्छति —

कथमिति ।

कर्मधारयाद्यनेकयोगेऽपि संज्ञासमासं बलवत्तरमाप्तोक्तेरुपेत्यात्र परेष्टसङ्ख्याधीरेव नेति परिहरति —

उच्यत इति ।

दिग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञाया विषये सुबन्तेन समस्यन्ते, दक्षिणाग्निः सप्तर्षय इति दर्शनात् , स तु समासस्तत्पुरुषसंज्ञ इति स्मृतेरित्यर्थः ।

संज्ञात्वेऽपि पाचकशब्दवदवयववृत्त्या पञ्चजनशब्दस्य बोधकत्वमाशङ्क्योक्तम् —

ततश्चेति ।

सति संज्ञात्वे पञ्चजनशब्दोऽवयवार्थयोगानपेक्षत्वादेकस्मिन्नपि वसिष्ठे सप्तर्षिशब्दवदेकत्रापि भवतीति भावः ।

प्राथमिकपञ्चशब्दस्यान्वयमाकाङ्क्षया दर्शयति —

त इति ।

वाक्यार्थं सदृष्टान्तं स्पष्टयति —

पञ्चेति ॥ ११ ॥