सूत्रं व्याचष्टे -
तुशब्द इति ।
आशङ्कापनोदप्रकारमेव प्रकटयति -
न खल्विति ।
अत्र हेतुत्वेन सूत्रभागमादत्ते -
यत इति ।
तस्यार्थमाह -
मृदादीति ।
भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यमानं न भवतीत्यत्र प्रश्नपूर्वकं हेतुद्वयमाह -
कस्मादिति ।
तत्र विशेषं व्याचष्टे -
विशेषो हीति ।
तस्यान्यथोपपत्तिं वारयति -
सर्वेति ।
उपकार्योपकारकत्वाधिगतेः साम्ये च तदयोगात्प्रसिद्धिश्रुतिभ्यां चेतनाचेतनत्वविभागावगमात्केवलभूतेन्द्रियविषया नैषा श्रुतिरित्यर्थः ।
अविशेषेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति -
अपिचेति ।
विशिषन्ति वागादीन्प्राणादीनिति शेषः । अहंश्रेयसे श्रेयानहमित्यस्मै प्रयोजनाय । स्वकीयश्रेष्ठत्वायेत्यर्थः । निःश्रेयसं श्रैष्ठ्यं प्राणे ज्ञात्वा तदनुवर्तिन्यः सर्वा देवता बभूवुरित्यर्थः ।
इदानीमनुगतिमविशेषतो दर्शयति -
अनुगताश्चेति ।
सर्वत्रेति भूतेन्द्रियादिग्रहणम् । सम्प्रति करणेष्वेव देवतानुगतिं श्रुतितो दर्शयति -
अग्निरिति ।
करणेष्वेवानुगतिं विधान्तरेण निरूपयति -
प्राणेति ।
क्षेत्रज्ञाधिष्ठितानां शरीराणामिव प्राणानामपि व्यवहारानुगतिं दर्शयन्ती श्रुतिस्तेषां क्षेत्रज्ञाधिष्ठानेनैव चैतन्यं द्रढयतीत्यर्थः ।
भूतेन्द्रियविषयचेतनत्वश्रुतेरभिमानिनिमित्ततां विशेषानुगतिभ्यामुक्त्वा भूतेषु चेतनत्वाभिधानस्याभिमानिनिमित्ततां विशेषतो दर्शयति -
तत्तेज इति ।
सर्वस्य चेतनत्वासम्भवे हेत्वसिद्धिसमाधिमुपसंहरति -
तस्मादिति ।
तत्फलमनुमानं निगमयति -
विलक्षणत्वाच्चेति ।
ब्रह्मणि समन्वयो यथोक्तन्यायविरोधान्न सिध्यतीति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -
इत्याक्षिप्त इति ॥ ५ ॥