ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
तुशब्द आशङ्कामपनुदति खलुमृदब्रवीत्इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् , यतोऽभिमानिव्यपदेश एषः; मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, भूतेन्द्रियमात्रम्कस्मात् ? विशेषानुगतिभ्याम्विशेषो हि भोक्तॄणां भूतेन्द्रियाणां चेतनाचेतनप्रविभागलक्षणः प्रागभिहितःसर्वचेतनतायां चासौ नोपपद्येतअपि कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिंषन्ति — ‘एता वै देवता अहंश्रेयसे विवदमानाःइति, ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा’ (कौ. उ. २ । १२) इति अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्तेअग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. आ. २ । ४ । २ । ४) इत्येवमादिका श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयतिप्राणसंवादवाक्यशेषे ते प्राणाः प्रजापतिं पितरमेत्योचुः’ (छा. उ. ५ । १ । ७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम् , तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः, तस्मै बलिहरणम् इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति । ‘तत्तेज ऐक्षतइत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम्तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत्; विलक्षणत्वाच्च ब्रह्मप्रकृतिकम् ॥ ५ ॥

सूत्रं व्याचष्टे -

तुशब्द इति ।

आशङ्कापनोदप्रकारमेव प्रकटयति -

न खल्विति ।

अत्र हेतुत्वेन सूत्रभागमादत्ते -

यत इति ।

तस्यार्थमाह -

मृदादीति ।

भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यमानं न भवतीत्यत्र प्रश्नपूर्वकं हेतुद्वयमाह -

कस्मादिति ।

तत्र विशेषं व्याचष्टे -

विशेषो हीति ।

तस्यान्यथोपपत्तिं वारयति -

सर्वेति ।

उपकार्योपकारकत्वाधिगतेः साम्ये च तदयोगात्प्रसिद्धिश्रुतिभ्यां चेतनाचेतनत्वविभागावगमात्केवलभूतेन्द्रियविषया नैषा श्रुतिरित्यर्थः ।

अविशेषेण विशेषं व्याख्याय प्राणेषु विशेषं विशेषतो व्याकरोति -

अपिचेति ।

विशिषन्ति वागादीन्प्राणादीनिति शेषः । अहंश्रेयसे श्रेयानहमित्यस्मै प्रयोजनाय । स्वकीयश्रेष्ठत्वायेत्यर्थः । निःश्रेयसं श्रैष्ठ्यं प्राणे ज्ञात्वा तदनुवर्तिन्यः सर्वा देवता बभूवुरित्यर्थः ।

इदानीमनुगतिमविशेषतो दर्शयति -

अनुगताश्चेति ।

सर्वत्रेति भूतेन्द्रियादिग्रहणम् । सम्प्रति करणेष्वेव देवतानुगतिं श्रुतितो दर्शयति -

अग्निरिति ।

करणेष्वेवानुगतिं विधान्तरेण निरूपयति -

प्राणेति ।

क्षेत्रज्ञाधिष्ठितानां शरीराणामिव प्राणानामपि व्यवहारानुगतिं दर्शयन्ती श्रुतिस्तेषां क्षेत्रज्ञाधिष्ठानेनैव चैतन्यं द्रढयतीत्यर्थः ।

भूतेन्द्रियविषयचेतनत्वश्रुतेरभिमानिनिमित्ततां विशेषानुगतिभ्यामुक्त्वा भूतेषु चेतनत्वाभिधानस्याभिमानिनिमित्ततां विशेषतो दर्शयति -

तत्तेज इति ।

सर्वस्य चेतनत्वासम्भवे हेत्वसिद्धिसमाधिमुपसंहरति -

तस्मादिति ।

तत्फलमनुमानं निगमयति -

विलक्षणत्वाच्चेति ।

ब्रह्मणि समन्वयो यथोक्तन्यायविरोधान्न सिध्यतीति पूर्वपक्षमनुभाष्य सिद्धान्तमाह -

इत्याक्षिप्त इति ॥ ५ ॥