ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तम् , न तर्कशास्त्रवत्केवलाभिर्युक्तिभिः कञ्चित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् , तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि साङ्ख्यादिदर्शनानि निराकरणीयानीति तदर्थः परः पादः प्रवर्तते । वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम् — तद्ध्यभ्यर्हितं परपक्षप्रत्याख्यानादिति । ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम् । किं परपक्षनिराकरणेन परविद्वेषकरेण ? बाढमेवम् । तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषाञ्चिन्मन्दमतीनाम् — एतान्यपि सम्यग्दर्शनायोपादेयानि — इत्यपेक्षा, तथा युक्तिगाढत्वसम्भवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु — इत्यतस्तदसारतोपपादनाय प्रयत्यते । ननु ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) ‘कामाच्च नानुमानापेक्षा’ (ब्र. सू. १ । १ । १८) ‘एतेन सर्वे व्याख्याता व्याख्याताः’ (ब्र. सू. १ । ४ । २८) इति च पूर्वत्रापि साङ्ख्यादिपक्षप्रतिक्षेपः कृतः; किं पुनः कृतकरणेनेति । तदुच्यते — साङ्ख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यानाभासम् , न सम्यग्व्याख्यानम् — इत्येतावत्पूर्वं कृतम्; इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः ॥

ननु तर्कशास्त्रवदस्य शास्त्रस्य तर्कप्रधानत्वाभावाद्वेदान्तवाक्यप्रधानत्वात्तेषां ब्रह्मणि तात्पर्यमेवात्र निरूपणीयम् , तदपेक्षितन्यायजातस्य समन्वयाध्याये सिद्धत्वात् , परपक्षबाधकतर्कोक्तिस्तु नेहोपयुज्यते, तत्किमनेन पादेन, तत्राह -

यद्यपीति ।

परपक्षप्रतिक्षेपमन्तरेण स्वपक्षावधारणायोगात्तन्निराकरणमपि प्रकृतोपयोगीति पादारम्भं समर्थयते -

तथापीति ।

स्वपक्षं निर्धारयितुं परपक्षो निराचिकीर्षितश्चेत्तदेव तर्हि प्रथमं किमिति न कृतमित्याशङ्क्याह -

वेदान्तेति ।

परपक्षप्रतिषेधस्यापि तदर्थत्वमवशिष्टमित्याशङ्क्य करणस्येतिकर्तव्यतारूपादन्तरङ्गत्वाद्वाक्यनिरूपणस्यैव प्राथम्यमित्याह -

तद्धीति ।

सम्यग्धीदार्ढ्याय स्वपक्षस्थापनानन्तरं परपक्षनिरसनमुचितमिति निगमयितुमितिशब्दः ।

वीतरागाणां मोक्षमाणानामपेक्षितमोक्षहेतुतया तत्त्वज्ञानमात्रमुपयुक्तं, परपक्षाधिक्षेपस्तु वीतरागताविरोधित्वादयुक्त इति शङ्कते -

नन्विति ।

मुमुक्षूणां मोक्षौपयिकत्वेन सम्यग्धीरेवोपयुक्तेत्युक्तमङ्गीकरोति -

बाढमिति ।

किमिति तर्हि परपक्षनिराकरणं परविद्वेषकरणमभ्युपगतम् , तत्राह -

तथापीति ।

साङ्ख्यादिदर्शनानां महाजनपरिगृहीतत्वात्प्रधानादिकारणपरतया महत्त्वात्तत्त्वज्ञानापदेशेन प्रवृत्तत्वात्तदीयानुमानानां सर्वज्ञप्रणीततया तुल्यबलत्वेन वेदान्तैरबाधाद्वस्तुनि विकल्पानुपपत्तेस्तदनिरासे तेष्वपि सम्यग्धीहेतुत्वभ्रमः स्यात् । अतः सम्यग्धीदार्ढ्याय तन्निराकरणं कर्तव्यमिति तर्कपादारम्भः सम्भवतीत्यर्थः ।

पुनरुक्तिं शङ्कते -

नन्विति ।

प्रधानपक्षनिराकरणं सूत्रकारस्य विवक्षितमित्यत्राभ्यासलिङ्गमाह -

कामाच्चेति ।

तथापि परमाण्वादिवादव्युदासार्थं पादारम्भो भविष्यतीत्याशङ्क्याह -

एतेनेति ।

पूर्वं प्रधानादीनां श्रुतिमत्त्वं निरस्तमिदानीं युक्तिमत्त्वं निरस्यते तेषामिति विशेषं वदन्नुत्तरमाह -

तदुच्यत इति ।

स्वपक्षे परैरुद्भावितदोषनिरासानन्तरं स्वतन्त्राणां परकीययुक्तीनां स्वतन्त्राभिरेव युक्तिभिः स्वपक्षं स्थापयितुं निरसनं कार्यमिति पादान्तरमर्थवदिति पादसङ्गतिरुक्ता । साङ्ख्ययुक्तिनिरासस्य समन्वये तद्विरोधनिरसनद्वारा तद्दार्ढ्यार्थत्वादस्याधिकरणस्य पादादिसङ्गतयः ।