ननु तर्कशास्त्रवदस्य शास्त्रस्य तर्कप्रधानत्वाभावाद्वेदान्तवाक्यप्रधानत्वात्तेषां ब्रह्मणि तात्पर्यमेवात्र निरूपणीयम् , तदपेक्षितन्यायजातस्य समन्वयाध्याये सिद्धत्वात् , परपक्षबाधकतर्कोक्तिस्तु नेहोपयुज्यते, तत्किमनेन पादेन, तत्राह -
यद्यपीति ।
परपक्षप्रतिक्षेपमन्तरेण स्वपक्षावधारणायोगात्तन्निराकरणमपि प्रकृतोपयोगीति पादारम्भं समर्थयते -
तथापीति ।
स्वपक्षं निर्धारयितुं परपक्षो निराचिकीर्षितश्चेत्तदेव तर्हि प्रथमं किमिति न कृतमित्याशङ्क्याह -
वेदान्तेति ।
परपक्षप्रतिषेधस्यापि तदर्थत्वमवशिष्टमित्याशङ्क्य करणस्येतिकर्तव्यतारूपादन्तरङ्गत्वाद्वाक्यनिरूपणस्यैव प्राथम्यमित्याह -
तद्धीति ।
सम्यग्धीदार्ढ्याय स्वपक्षस्थापनानन्तरं परपक्षनिरसनमुचितमिति निगमयितुमितिशब्दः ।
वीतरागाणां मोक्षमाणानामपेक्षितमोक्षहेतुतया तत्त्वज्ञानमात्रमुपयुक्तं, परपक्षाधिक्षेपस्तु वीतरागताविरोधित्वादयुक्त इति शङ्कते -
नन्विति ।
मुमुक्षूणां मोक्षौपयिकत्वेन सम्यग्धीरेवोपयुक्तेत्युक्तमङ्गीकरोति -
बाढमिति ।
किमिति तर्हि परपक्षनिराकरणं परविद्वेषकरणमभ्युपगतम् , तत्राह -
तथापीति ।
साङ्ख्यादिदर्शनानां महाजनपरिगृहीतत्वात्प्रधानादिकारणपरतया महत्त्वात्तत्त्वज्ञानापदेशेन प्रवृत्तत्वात्तदीयानुमानानां सर्वज्ञप्रणीततया तुल्यबलत्वेन वेदान्तैरबाधाद्वस्तुनि विकल्पानुपपत्तेस्तदनिरासे तेष्वपि सम्यग्धीहेतुत्वभ्रमः स्यात् । अतः सम्यग्धीदार्ढ्याय तन्निराकरणं कर्तव्यमिति तर्कपादारम्भः सम्भवतीत्यर्थः ।
पुनरुक्तिं शङ्कते -
नन्विति ।
प्रधानपक्षनिराकरणं सूत्रकारस्य विवक्षितमित्यत्राभ्यासलिङ्गमाह -
कामाच्चेति ।
तथापि परमाण्वादिवादव्युदासार्थं पादारम्भो भविष्यतीत्याशङ्क्याह -
एतेनेति ।
पूर्वं प्रधानादीनां श्रुतिमत्त्वं निरस्तमिदानीं युक्तिमत्त्वं निरस्यते तेषामिति विशेषं वदन्नुत्तरमाह -
तदुच्यत इति ।
स्वपक्षे परैरुद्भावितदोषनिरासानन्तरं स्वतन्त्राणां परकीययुक्तीनां स्वतन्त्राभिरेव युक्तिभिः स्वपक्षं स्थापयितुं निरसनं कार्यमिति पादान्तरमर्थवदिति पादसङ्गतिरुक्ता । साङ्ख्ययुक्तिनिरासस्य समन्वये तद्विरोधनिरसनद्वारा तद्दार्ढ्यार्थत्वादस्याधिकरणस्य पादादिसङ्गतयः ।