सूत्रस्य सङ्गतिमाह -
यच्चेति ।
वृत्तमनूद्य पूर्वोत्तरसूत्रयोरपुनरुक्तं विषयमुक्त्वा प्रतिज्ञामाकाङ्क्षां पूरयन्व्याकरोति -
आकाशे चेति ।
तत्र हेतुः -
प्रतिसङ्ख्येति ।
कथमावरणाभावमात्रे तस्मिन्वस्तुत्वधीः, तत्राह -
आगमेति ।
तत्प्रामाण्येऽपि कथमाकाशे वस्तुत्वधीरित्याशङ्क्य तदुत्पत्तिवादिनीनां श्रुतीनां भूयस्त्वादित्याह -
आत्मन इति ।
न हि निरुपाख्यं नरविषाणवदुत्पत्तुमर्हतीति भावः ।
आगमाप्रामाण्ये बौद्धा विवदन्ते, तत्कथं तान्प्रत्यागमेन नभसो वस्तुत्वमुच्यते, तत्राह -
विप्रतिपन्नानिति ।
अनुमानमेव सूचयति -
गन्धादीनामिति ।
शब्दो हि क्वचिदाश्रितः, धर्मत्वात् , गन्धवदिति सामान्यतो धर्मिसिद्धिः । शब्दश्च विशेषगुणः, अस्पर्शवत्त्वे सति बाह्यैकेन्द्रियग्राह्यजातिमत्त्वात् , गन्धवत् । स च प्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वेन स्पर्सवदसम्बन्धात् , विशेषगुणतया दिक्लालमनोभिरसंसर्गात् , बाह्येन्द्रियग्राह्यतया चानात्मगुणत्वात् , पारिशेष्यादष्टद्रव्यातिरिक्तद्रव्याश्रयः । तच्चाकाशमित्यर्थः ।
आगमादनुमानादनुभवाद्वा सोपाख्यमाकाशमित्युक्त्वावरणाभावपक्षे दोषमाह -
अपि चेति ।
यथैकघटसत्त्वेऽपि घटान्तरासत्त्वप्रत्युक्त्या निर्घटं भूतलमित्यशक्यं वक्तुं तथैकस्मिन्नावरणे सत्यावरणान्तराभावप्रयुक्त्यापि न तद्धीनतेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।
देशावच्छेदेनावरणाभावविभागं गृहीत्वा शङ्कते -
यत्रेति ।
अभावस्य धर्मिप्रतियोग्यपेक्षत्वाद्धर्मिणो वस्तुत्वं स्यादित्याह -
येनेति ।
इतश्चाकाशस्य वस्तुत्वमित्याह -
अपि चेति ।
प्रसङ्गं प्रकटीकर्तुं स्वाभ्युपगममुपन्यस्यति -
सौगते हीति ।
किं सम्यङ्निश्चितं श्रेयोऽधिकरणमस्या इति किंसंनिश्रया । कथमाकाशस्य वस्तुत्वाभावे तद्विरोधप्रसङ्गः, तत्राह -
तदिति ।
आश्रयत्वं नावस्तुनो दृष्टमित्यर्थः ।
स्वाभ्युपगमविरोधप्रसङ्गफलमाह -
तस्मादिति ।
निरोधद्वयस्याकाशस्य चावस्तुत्वे साधारणं दूषणमाह -
अपि चेति ।
विप्रतिषेधं स्फोरयति -
न हीति ।
नाशाभावोपलक्षितसत्तायोगित्वं नित्यत्वम् । तद्विपरीतमनित्यत्वम् । तदुभयं न तुच्छस्य युक्तमित्यर्थः ।
वस्तुत्वाभावे धर्मधर्मिव्यवहाराविषयत्वमित्युक्तम् । इदानीं तद्विषयत्वे वस्तुत्वं स्यादित्याह -
धर्मेति ॥ २४ ॥