ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
आकाशे चाविशेषात् ॥ २४ ॥
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं निरुपाख्यमितितत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम्आकाशस्येदानीं निराक्रियतेआकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः, प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात्आगमप्रामाण्यात्तावत् आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्य आकाशस्य वस्तुत्वप्रसिद्धिःविप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम्गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्अपि आवरणाभावमात्रमाकाशमिच्छताम् , एकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गःयत्रावरणाभावस्तत्र पतिष्यतीति चेत्येनावरणाभावो विशेष्यते, तत्तर्हि वस्तुभूतमेवाकाशं स्यात् , आवरणाभावमात्रम्अपि आवरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येतसौगते हि समयेपृथिवी भगवः किंसन्निश्रयाइत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्तेवायुः किंसन्निश्रयःइत्यस्य प्रश्नस्य प्रतिवचनं भवति — ‘वायुराकाशसन्निश्रयःइतितदाकाशस्यावस्तुत्वे समञ्जसं स्यात्तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्अपि निरोधद्वयमाकाशं त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ह्यवस्तुनो नित्यत्वमनित्यत्वं वा सम्भवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्यधर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात् , निरुपाख्यत्वम् ॥ २४ ॥

निरोधद्वयं निरस्याकाशं निरस्यति -

आकाशे चेति ।