अध्यस्तस्याधिष्ठानत्वायोगान्न कुतश्चिदपि ब्रह्मणो जन्मेत्युक्तम् । इदानीं वायोरपि तर्हि कार्यत्वेनाध्यस्तत्वात्तेजसस्ततो जन्मानुपपत्तेर्ब्रह्मण एव तज्जन्मेति प्रत्यवस्थाने प्रत्याह -
तेजोऽत इति ।