ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तेजोऽतस्तथाह्याह ॥ १० ॥
छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम् , तैत्तिरीयके तु वायुमूलत्वम्तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम् , प्राप्तं तावद्ब्रह्मयोनिकं तेज इतिकुतः ? ‘सदेवइत्युपक्रम्यतत्तेजोऽसृजतइत्युपदेशात्सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य सम्भवात्; तज्जलान्’ (छा. उ. ३ । १४ । १) इति अविशेषश्रुतेःएतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इति उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात्; तैत्तिरीयके तपस्तप्त्वाइदꣳ सर्वमसृजतयदिदं किञ्च’ (तै. उ. २ । ६ । १) इत्यविशेषश्रवणात्तस्मात्वायोरग्निः’ (तै. उ. २ । १ । १) इति क्रमोपदेशो द्रष्टव्यःवायोरनन्तरमग्निः सम्भूत इति
एवं प्राप्ते, उच्यतेतेजः अतः मातरिश्वनः जायत इतिकस्मात् ? तथा ह्याह — ‘वायोरग्निःइतिअव्यवहिते हि तेजसो ब्रह्मजत्वे सति, असति वायुजत्वेवायोरग्निःइतीयं श्रुतिः कदर्थिता स्यात्ननु क्रमार्थैषा भविष्यतीत्युक्तम्; नेति ब्रूमःतस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति पुरस्तात् सम्भवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात् , तस्यैव सम्भवतेरिहाधिकारात् , परस्तादपि तदधिकारे पृथिव्या ओषधयः’ (तै. उ. २ । १ । १) इत्यपादानपञ्चमीदर्शनात्वायोरग्निःइत्यपादानपञ्चम्येवैषेति गम्यतेअपि , वायोरूर्ध्वमग्निः सम्भूतःइति कल्प्यः उपपदार्थयोगः, कॢप्तस्तु कारकार्थयोगःवायोरग्निः सम्भूतः इतितस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयतिनन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति — ‘तत्तेजोऽसृजतइति; ; तस्याः पारम्पर्यजत्वेऽप्यविरोधात्यदापि ह्याकाशं वायुं सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो विरुध्यते, यथातस्याः शृतम् , तस्या दधि, तस्या आमिक्षेत्यादिदर्शयति ब्रह्मणो विकारात्मनावस्थानम्तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इतितथा ईश्वरस्मरणं भवतिबुद्धिर्ज्ञानमसंमोहः’ (भ. गी. १० । ४) इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ (भ. गी. १० । ५) इतियद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वा ईश्वरवंश्यत्वात्एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः; तासां सर्वथोपपत्तेः, क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेःप्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, अव्यवहितजन्यत्वम्इत्यविरोधः ॥ १० ॥

अध्यस्तस्याधिष्ठानत्वायोगान्न कुतश्चिदपि ब्रह्मणो जन्मेत्युक्तम् । इदानीं वायोरपि तर्हि कार्यत्वेनाध्यस्तत्वात्तेजसस्ततो जन्मानुपपत्तेर्ब्रह्मण एव तज्जन्मेति प्रत्यवस्थाने प्रत्याह -

तेजोऽत इति ।