ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
कथं तर्हि अणुत्वादिव्यपदेश इत्यत आहतद्गुणसारत्वात्तु तद्व्यपदेश इतितस्या बुद्धेः गुणास्तद्गुणाःइच्छा द्वेषः सुखं दुःखमित्येवमादयःतद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम् हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्तिबुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनःतस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, स्वतःतथा वालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवः विज्ञेयः चानन्त्याय कल्पते’ (श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाहतच्चैवमेव समञ्जसं स्यात्यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं आनन्त्यम् हि उभयं मुख्यमवकल्पेत आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्तथेतरस्मिन्नप्युन्माने बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, स्वेनैवात्मनाएषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) इत्यत्रापि जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन प्रकृतत्वात् , जीवस्यापि मुख्याणुपरिमाणत्वानुपपत्तेःतस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् , उपाध्यभिप्रायं वा द्रष्टव्यम्तथा प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इत्येवंजातीयकेष्वपि भेदोपदेशेषुबुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्यइत्येवं योजयितव्यम् , व्यपदेशमात्रं वाशिलापुत्रकस्य शरीरमित्यादिवत् ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम्हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयतिकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) प्राणमसृजत’ (प्र. उ. ६ । ४) इति; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत्यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशःअणीयान्व्रीहेर्वा यवाद्वा’ (छा. उ. ३ । १४ । ३)मनोमयः प्राणशरीरः ... सर्वगन्धः सर्वरसःसत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवंप्रकारःतद्वत् ॥ २९ ॥

विभुत्वे जीवस्याणुत्वादिव्यपदेशासिद्धिरित्युक्तमनुस्मारयति -

कथमिति ।

तदुत्तरत्वेन सूत्रावयवं पातयति -

अत इति ।

‘अभ्युपगमाद्धृदि हि’ इति हृदयस्य प्रकृतत्वात्तन्निष्ठा बुद्धिरेवात्र तच्छब्देत्यक्षरार्थमाह -

तस्या इति ।

पदार्थमुक्त्वा समासमाह -

तद्गुणा इति ।

पारमार्थिकमात्मनः संसारित्वं किं बुद्धिगुणैरित्याशङ्क्याह -

नहीति ।

असङ्गत्वेनापरिणामित्वं सूचयति -

केवलस्येति ।

बुद्धिधर्माणामात्मगतत्वासिद्धेः साङ्ख्यवदात्मनः संसारित्वायोगमाशङ्क्याह -

बुद्धीति ।

आत्मनो बुद्धितद्धर्माध्यासद्वारा संसारित्वेऽपि प्रकृतेऽणुत्वादिवादे किं जातमित्याशङ्क्याह -

तस्मादिति ।

किञ्च जीवस्याणुत्ववादीनि यानि वाक्यान्युक्तानि तान्यपि पौर्वापर्यपर्यालोचनायां महत्त्वमेव तस्य गमयन्तीति मत्वोन्मानश्रुतिं प्रत्याह -

तथाचेति ।

अणुत्वे च महत्त्वे च श्रुते किमित्युभयं नेष्टमित्याशङ्क्यान्यतरद्वा द्वयमपि वा तत्त्वम् । आद्येऽपि महत्त्वस्याणुत्वस्य वा वस्तुतेति विकल्प्य प्रथममङ्गीकुर्वन्नाह -

तच्चेति ।

द्वयमपि तत्त्वमपि पक्षं विरोधेन प्रत्याह -

नहीति ।

कल्पान्तरं निराह -

नचेति ।

तत्त्वमसीत्यत्रत्वमर्थोद्देशेनानन्तब्रह्मभावस्य विधित्सितत्वाद्विधित्सितानन्त्यविरोधादुद्देश्यस्थमणुत्वमविवक्षितमिति भावः ।

उन्मानान्तरं प्रत्याह -

तथेति ।

बुद्ध्यध्यासेन तद्गुणेनात्मन्यध्यस्तेन तस्मिन्मिथ्यागुणान्तरमुत्पद्यते, तेनात्मगुणेनाराग्रपरिमाणोऽपकृष्टश्च जीवो दृष्टः । वस्तुतस्तु नायं गुणाधारो न चापकर्षवानित्यर्थः ।

श्रुतेस्तात्पर्यमाह -

बुद्धीति ।

यत्तु स्वशब्दादणुत्वं, तद्दूषयति -

एष इति ।

दुर्ज्ञानत्वज्ञापकप्रकरणापेक्षया श्रुतेरेव प्राबल्यादणुत्वमित्याशङ्क्य काल्पनिकं तदिष्टं वास्तवमयुक्तमित्याह -

जीवस्येति ।

परमात्मदृष्टान्तार्थोऽपिशब्दः । तदभिन्नत्वादित्युक्तो हेतुः । परस्य प्रकरणिनो विभुत्वात्तदभिन्नत्वाच्च जीवस्य न चेदणुत्वं तर्हि कथमणुत्वश्रुतिः, तत्राह -

तस्मादिति ।

अणुशब्दस्यात्यन्तसूक्ष्मे प्रयोगात्कथमुक्तार्थतेत्याशङ्क्याह -

उपाधीति ।

यत्तु पृथगुपदेशादिति, तत्राह -

तथेति ।

यथा स्वशब्दोन्माने जीवस्य नाणुत्वमावेदयतस्तथा पृथगुपदेशोऽपि तस्याणोरेव चैतन्यस्य देहव्याप्तिमाहेत्यर्थः ।

समारुह्य वागादिना नामाद्याप्नोतीति शेषः । प्रज्ञाशब्दस्य चैतन्यार्थत्वात्कुतो बुद्धिविषयतेत्याशङ्क्याह -

व्यपदेशेति ।

गुणगुणित्वेन तस्य मुख्यत्वे किमित्यौपचारिकत्वं, तत्राह -

नहीति ।

अत्रेति चैतन्यात्मनोरुक्तिः । उक्तं ‘यदि तु चैतन्यं जीवस्येत्यादौ’ इति शेषः ।

यत्तु तथाच दर्शयतीति, तत्राह -

हृदयेति ।

यच्चोत्क्रान्त्यादिश्रुतेर्जीवोऽणुरिति, तत्राह -

तथेति ।

इतीक्षित्वेति शेषः ।

यत्तु स्वात्मना चोत्तरयोरिति, तत्राह -

उत्क्रान्तीति ।

तत्र हेतुमाह -

नहीति ।

दार्ष्टान्तिकमुपसंहरति -

एवमिति ।

दृष्टान्तमादाय व्याचष्टे -

प्राज्ञवदिति ।

उक्तदृष्टान्तानुसारेण जीवस्यापि बुद्धिगुणसारत्वादणुत्वादिव्यपदेश इत्याह -

तद्वदिति ॥ २९ ॥

उक्ते कर्तृत्वे विप्रतिपत्त्या संशयमाह -

तदिति ।

सङ्गतिफले पूर्ववत् ।

अत्रापि समाप्तौ सर्वं व्यक्तीभविष्यतीति मत्वा पूर्वपक्षयति -

तत्रेति ।

नच तर्हि पूर्वाधिकरणमनर्थकम् , आरोप्यप्रापकत्वात् । नच स्वातन्त्र्येण सम्बन्धाद्यभावे तस्यैतदवान्तरसूत्रत्वंं, तत्रापि कर्तृत्वे समर्थिते सत्यसङ्गस्य स्तुत्यापि नेतुं शक्यत्वे विरोधपरिहारेण समन्वयदार्ढ्यसिद्धौ साक्षादपि सङ्गत्यादेः सुवचत्वात् ।

ननु कर्तृत्वसत्त्वमात्रमुक्ता हेतवः साधयन्ति, न तस्य स्वाभाविकत्वं, नहि तस्योपाध्यनपेक्षत्वमुक्तं, तत्राह -

अपवादेति ।

न चान्वयव्यतिरेकाभ्यां विशिष्टस्य कर्तृत्वं शङ्कनीयं, तदुत्पत्तौ मनसो निमित्तत्वादपि तदुपपत्तेरिति मत्वा पूर्वपक्षमुपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति -

एवमिति ।

स्वाभाविकं कर्तृत्वमपवादकाभावादित्ययुक्तं मुक्त्यनुपपत्तेरपवादकत्वादित्याह -

नेति ।

उक्तं विवृण्वन्कर्तृत्वमात्मनः स्वभावो धर्मो वेति विकल्प्याद्यं प्रत्याह -

कर्तृत्वेति ।

कर्तृत्वे सत्येव पुरुषार्थसम्भवात्किं तन्निवृत्त्येत्याशङ्क्याह -

नचेति ।

द्वितीयमाश्रित्य शङ्कते -

नन्विति ।

सत्यां शक्तौ कार्यपरिहारोऽपि कथं, तत्राह -

तदिति ।

शक्तस्यैव निमित्तपरिहारात्कार्यपरिहारं दृष्टान्तेन दर्शयति -

यथेति ।

कर्तृत्वस्य धर्मादीनि निमित्तानि । तेषां ज्ञानानिवर्त्यत्वे मुक्तावपि सम्भवात्कर्तृत्वं स्यात् । ज्ञानेन तन्निवृत्तौ तेषामज्ञानकार्यत्वात्तत्कृतं कर्तृत्वमपि तथा स्यत् । शक्तेश्च शक्तशक्यसापेक्षतया सनिमित्तक्रियालक्षणशक्याक्षेपकत्वादनिर्मोक्षः । तस्मान्निमित्तपरिहारस्य दुरनुष्ठानत्वान्न शक्तिवादे मुक्तिरित्याह -

नेत्यादिना ।

शक्तिलक्षणेन शक्त्याक्षिप्तेन शक्येन सह यः सम्बन्धस्तेनेति व्यधिकरणे तृतीये । मनुष्यदेहस्य शास्त्रसामर्थ्याद्देवत्वाप्तिवत्कर्तृभूतस्याकर्तृरूपमोक्षाप्तिः शास्त्रवशादेवेति शङ्कते -

नन्विति ।

किं सन्नेव मोक्षोऽज्ञानवृतो ज्ञानात्तन्निवृत्त्याप्यत उतासन्नपूर्वो हेतुशक्त्या लभ्यते । आद्ये कर्तृत्वस्य भ्रान्तित्वम् । द्वितीयं दूषयति -

नेति ।

मुक्तेः साधनाय तत्त्वमुपेत्योक्तम् , तदेव नेत्याह -

अपिचेति ।

तथापि कथं स्वाभाविकं कर्तृत्वमपह्नूयते, तत्राह -

तादृगिति ।

का तर्हि कर्तृत्वदृष्टेरात्मनि गतिः, तत्राह -

तस्मादिति ।

आत्मन्यौपाधिकमारोपितं कर्तृत्वमित्यत्र मानमाह -

तथाचेति ।

उक्तश्रुत्योस्तात्पर्यमाह -

उपाधीति ।

विद्वदनुभवविरुद्धा च स्वाभाविकी कर्तृतेत्याह -

नहीति ।

विवेकिनामित्युक्तेरवस्थाभेदापेक्षमैक्यमित्याशङ्क्याह -

नान्य इति ।

बुद्ध्यादिसङ्घातादतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी कर्ता च प्रसज्येत । नच तद्युक्तं, नित्यशुद्धत्वादिविरोधात् । यदि परस्मादन्यश्चेतनस्तर्हि नासौ बुद्ध्यादिव्यतिरिक्तः स्यादिति शङ्कते -

पर एवेति ।

न तावत्केवलस्य चेतनस्य मुक्तिबन्धौ, तस्य नित्यमुक्तत्वात् । नापि केवलस्य बुद्ध्यादेस्तौ, तस्य जडत्वात् , किं त्वनाद्यनिर्वाच्याविद्योत्थबुद्ध्याद्युपाधिद्वारा चेतनस्यैव तौ कल्प्येते । नच व्यवस्थानुपपत्तिः, एकस्मिन्नपि चिद्धातौ काल्पनिकभेदाधीनव्यवस्थापनात् , वस्तुतस्तदभावस्येष्टत्वात् । तस्मात्परस्मादन्यस्य चितिमतोऽभावेऽपि वस्तुतः संसारित्वस्य तस्मिन्नप्रसङ्गात्कल्पनया चोपगमान्नैवमित्याह -

न । अविद्येति ।

उक्तेऽर्थे श्रौतावन्वयव्यतिरेकौ दर्शयति -

तथाचेति ।

उपाध्युद्भवाभिभवाभ्यां कर्तृत्वस्योद्भवाभिभवश्रवणादपि तदौपाधिकमित्याह -

तथेति ।

परमानन्दत्वेनाप्तकामत्वं साधयति -

आत्मेति ।

कामयितव्याभावादपि तथेत्याह -

अकाममिति ।

अशेषशोकसंस्पर्शशून्यत्वादपि तथेत्याह -

शोकान्तरमिति ।

उक्तस्य सौषुप्तात्मरूपस्य परमपुरुषार्थतामाह -

एषेति ।

प्रेप्सितमैश्वर्यमतिरिक्तमस्तीत्याशङ्क्याह -

एषाऽस्येति ।

लोकविशेषस्यापेक्षणीयत्वमाशङ्क्योक्तम् -

एष इति ।

परमानन्दस्यातिरिक्तस्यापेक्षक्त्वमाशङ्क्याह -

एषोऽस्येति ।