मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
इतश्च
जीवस्य
कर्तृत्वम्
,
यदस्य
लौकिकीषु
वैदिकीषु
च
क्रियासु
कर्तृत्वं
व्यपदिशति
शास्त्रम्
—
‘
विज्ञानं
यज्ञं
तनुते
।
कर्माणि
तनुतेऽपि
च
’ (तै. उ. २ । ५ । १)
इति
।
ननु
विज्ञानशब्दो
बुद्धौ
समधिगतः
,
कथमनेन
जीवस्य
कर्तृत्वं
सूच्यत
इति
,
नेत्युच्यते
—
जीवस्यैवैष
निर्देशः
,
न
बुद्धेः
।
न
चेज्जीवस्य
स्यात्
,
निर्देशविपर्ययः
स्यात्
—
विज्ञानेनेत्येवं
निरदेक्ष्यत्
।
तथा
हि
अन्यत्र
बुद्धिविवक्षायां
विज्ञानशब्दस्य
करणविभक्तिनिर्देशो
दृश्यते
—
‘
तदेषां
प्राणानां
विज्ञानेन
विज्ञानमादाय
’ (बृ. उ. २ । १ । १७)
इति
।
इह
तु
‘
विज्ञानं
यज्ञं
तनुते
’ (तै. उ. २ । ५ । १)
इति
कर्तृसामानाधिकरण्यनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः
कर्तृत्वं
सूच्यत
इत्यदोषः
॥ ३६ ॥
व्यपदेशाच्चेति
;
कर्तृवाचकाख्यातश्रुत्यापि जीवस्य कर्तृत्वमित्याह -
व्यपदेशाच्चेति ।