मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
समाध्यभावाच्च ॥ ३९ ॥
योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः
समाधिरुपदिष्टो
वेदान्तेषु
—
‘
आत्मा
वा
अरे
द्रष्टव्यः
श्रोतव्यो
मन्तव्यो
निदिध्यासितव्यः
’ (बृ. उ. २ । ४ । ५)
‘
सोऽन्वेष्टव्यः
स
विजिज्ञासितव्यः
’
‘
ओमित्येवं
ध्यायथ
आत्मानम्
’ (मु. उ. २ । २ । ६)
इत्येवंलक्षणः
,
सोऽप्यसत्यात्मनः
कर्तृत्वे
नोपपद्येत
।
तस्मादप्यस्य
कर्तृत्वसिद्धिः
॥ ३९ ॥
समाधीति
;
ज्ञानसाधनविध्यन्यथानुपपत्त्यापि कर्तृत्वमात्मनः स्वीकार्यमित्याह -
समाधीति ।