ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यथा च तक्षोभयथा ॥ ४० ॥
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितम्तत्पुनः स्वाभाविकं वा स्यात् , उपाधिनिमित्तं वेति चिन्त्यतेतत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम् , अपवादहेत्वभावादितिएवं प्राप्ते, ब्रूमः स्वाभाविकं कर्तृत्वमात्मनः सम्भवति, अनिर्मोक्षप्रसङ्गात्कर्तृत्वस्वभावत्वे ह्यात्मनो कर्तृत्वान्निर्मोक्षः सम्भवतिअग्नेरिवौष्ण्यात् कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखरूपत्वात्ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यतितत्परिहारश्च निमित्तपरिहारात्यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावःतद्वत्; निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन सम्बद्धानामत्यन्तपरिहारासम्भवात्ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति; साधनायत्तस्य अनित्यत्वात्अपि नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्षसिद्धिरभिमतातादृगात्मप्रतिपादनं स्वाभाविके कर्तृत्वेऽवकल्पेततस्मात् उपाधिधर्माध्यासेनैवात्मनः कर्तृत्वम् , स्वाभाविकम्तथा श्रुतिःध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति उपाधिसम्पृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते, नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ४ । ३ । २३) इत्यादिश्रवणात्पर एव तर्हि संसारी कर्ता भोक्ता प्रसज्येतपरस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता, बुद्ध्यादिसङ्घातव्यतिरिक्तो स्यात्, अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोःतथा शास्त्रम्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा, विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयतियत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इतितथा स्वप्नजागरितयोरात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा, तदभावं सुषुप्तौ प्राज्ञेनात्मना सम्परिष्वक्तस्य श्रावयतितद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्’ (बृ. उ. ४ । ३ । २१) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इत्युपसंहारात्
तदेतदाहाचार्यः — ‘यथा तक्षोभयथाइतित्वर्थे अयं चः पठितःनैवं मन्तव्यम्स्वाभाविकमेवात्मनः कर्तृत्वम् , अग्नेरिवौष्ण्यमितियथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति, एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवतिएवमविद्याप्रत्युपस्थापितद्वैतसम्पृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम्तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृतः सुखी भवतितक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यःतक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तैवएवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु अकर्तैवेति तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा
यत्तूक्तम् , शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति, तन्नविधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति, कर्तृत्वमात्मनः प्रतिपादयति स्वाभाविकमस्य कर्तृत्वमस्ति, ब्रह्मात्मत्वोपदेशात्इत्यवोचामतस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यतेकर्ता विज्ञानात्मा पुरुषःइत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यतिएतेन विहारोपादाने परिहृते, तयोरप्यनुवादरूपत्वात्ननु सन्ध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्ततेइति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहतितथोपादानेऽपि तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इतिअत्रोच्यते तावत्सन्ध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति, सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. उ. ४ । ३ । ७) इति तत्रापि धीसम्बन्धश्रवणात्तथा स्मरन्ति — ‘इन्द्रियाणामुपरमे मनोऽनुपरतं यदिसेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्इतिकामादयश्च मनसो वृत्तयः इति श्रुतिःताश्च स्वप्ने दृश्यन्तेतस्मात्समना एव स्वप्ने विहरतिविहारोऽपि तत्रत्यो वासनामय एव, तु पारमार्थिकोऽस्तितथा श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयतिउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’ (बृ. उ. ४ । ३ । १३) इतिलौकिका अपि तथैव स्वप्नं कथयन्तिआरुक्षमिव गिरिशृङ्गम् , अद्राक्षमिव वनराजिमितितथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः, तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् , केवले कर्तृत्वासम्भवस्य दर्शितत्वात्भवति लोकेऽनेकप्रकारा विवक्षायोधा युध्यन्ते, योधै राजा युध्यत इतिअपि अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते, स्वातन्त्र्यं कस्यचित् , अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात्यस्त्वयं व्यपदेशो दर्शितः, ‘विज्ञानं यज्ञं तनुतेइति, बुद्धेरेव कर्तृत्वं प्रापयतिविज्ञानशब्दस्य तत्र प्रसिद्धत्वात् , मनोऽनन्तरं पाठाच्च, तस्य श्रद्धैव शिरः’ (तै. उ. २ । ४ । १) इति विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसङ्कीर्तनात्श्रद्धादीनां बुद्धिधर्मत्वप्रसिद्धेः, विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते’ (तै. उ. २ । ५ । १) इति वाक्यशेषात्ज्येष्ठत्वस्य प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् , ‘ एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःइति श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात्उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम्सा चात्मनः तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात्अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति, अहंकारस्याप्युपलभ्यमानत्वात् चैवं सति करणान्तरकल्पनाप्रसङ्गः, बुद्धेः करणत्वाभ्युपगमात्समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः, यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात्तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥

साङ्ख्यमतनिरासेनोक्तात्मकर्तृत्वस्य स्वाभाविकत्वं निरस्यति -

यथाचेति ।