यथा च तक्षोभयथा ॥ ४० ॥
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितम् ।
तत्पुनः स्वाभाविकं वा स्यात् ,
उपाधिनिमित्तं वेति चिन्त्यते ।
तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम् ,
अपवादहेत्वभावादिति ।
एवं प्राप्ते,
ब्रूमः —
न स्वाभाविकं कर्तृत्वमात्मनः सम्भवति,
अनिर्मोक्षप्रसङ्गात् ।
कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः सम्भवति —
अग्नेरिवौष्ण्यात् ।
न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखरूपत्वात् ।
ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति ।
तत्परिहारश्च निमित्तपरिहारात् —
यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावः —
तद्वत् —
न;
निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन सम्बद्धानामत्यन्तपरिहारासम्भवात् ।
ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति —
न;
साधनायत्तस्य अनित्यत्वात् ।
अपि च नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्षसिद्धिरभिमता ।
तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वेऽवकल्पेत ।
तस्मात् उपाधिधर्माध्यासेनैवात्मनः कर्तृत्वम् ,
न स्वाभाविकम् ।
तथा च श्रुतिः —
‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति च —
उपाधिसम्पृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति ।
न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते,
‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ४ । ३ । २३) इत्यादिश्रवणात् ।
पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत ।
परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता,
बुद्ध्यादिसङ्घातव्यतिरिक्तो न स्यात् —
न,
अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः ।
तथा च शास्त्रम् —
‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा,
विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति —
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इति ।
तथा स्वप्नजागरितयोरात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा,
तदभावं सुषुप्तौ प्राज्ञेनात्मना सम्परिष्वक्तस्य श्रावयति —
‘तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्’ (बृ. उ. ४ । ३ । २१) इत्यारभ्य ‘एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः’ (बृ. उ. ४ । ३ । ३२) इत्युपसंहारात् ॥
तदेतदाहाचार्यः — ‘यथा च तक्षोभयथा’ इति । त्वर्थे च अयं चः पठितः । नैवं मन्तव्यम् — स्वाभाविकमेवात्मनः कर्तृत्वम् , अग्नेरिवौष्ण्यमिति । यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति, स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवति — एवमविद्याप्रत्युपस्थापितद्वैतसम्पृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम् — तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृतः सुखी भवति । तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः — तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तैव । एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु अकर्तैवेति । न तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ॥
यत्तूक्तम् ,
शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति,
तन्न —
विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति,
न कर्तृत्वमात्मनः प्रतिपादयति ।
न च स्वाभाविकमस्य कर्तृत्वमस्ति,
ब्रह्मात्मत्वोपदेशात् —
इत्यवोचाम ।
तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते ।
कर्ता विज्ञानात्मा पुरुषः —
इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति ।
एतेन विहारोपादाने परिहृते,
तयोरप्यनुवादरूपत्वात् ।
ननु सन्ध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तते —
इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति ।
तथोपादानेऽपि ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति ।
अत्रोच्यते —
न तावत्सन्ध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति,
‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’ (बृ. उ. ४ । ३ । ७) इति तत्रापि धीसम्बन्धश्रवणात् ।
तथा च स्मरन्ति — ‘
इन्द्रियाणामुपरमे मनोऽनुपरतं यदि ।
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्’
इति ।
कामादयश्च मनसो वृत्तयः इति श्रुतिः ।
ताश्च स्वप्ने दृश्यन्ते ।
तस्मात्समना एव स्वप्ने विहरति ।
विहारोऽपि च तत्रत्यो वासनामय एव,
न तु पारमार्थिकोऽस्ति ।
तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति —
‘उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’ (बृ. उ. ४ । ३ । १३) इति ।
लौकिका अपि तथैव स्वप्नं कथयन्ति —
आरुक्षमिव गिरिशृङ्गम् ,
अद्राक्षमिव वनराजिमिति ।
तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः,
तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् ,
केवले कर्तृत्वासम्भवस्य दर्शितत्वात् ।
भवति च लोकेऽनेकप्रकारा विवक्षा —
योधा युध्यन्ते,
योधै राजा युध्यत इति ।
अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते,
न स्वातन्त्र्यं कस्यचित् ,
अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् ।
यस्त्वयं व्यपदेशो दर्शितः, ‘
विज्ञानं यज्ञं तनुते’
इति,
स बुद्धेरेव कर्तृत्वं प्रापयति —
विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् ,
मनोऽनन्तरं पाठाच्च,
‘तस्य श्रद्धैव शिरः’ (तै. उ. २ । ४ । १) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसङ्कीर्तनात् —
श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः,
‘विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते’ (तै. उ. २ । ५ । १) इति च वाक्यशेषात् —
ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् , ‘
स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः’
इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् ।
न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति,
सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् ।
उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम् ।
सा चात्मनः ।
न च तस्यामप्यस्य कर्तृत्वमस्ति,
नित्योपलब्धिस्वरूपत्वात् ।
अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति,
अहंकारस्याप्युपलभ्यमानत्वात् ।
न चैवं सति करणान्तरकल्पनाप्रसङ्गः,
बुद्धेः करणत्वाभ्युपगमात् ।
समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः,
यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् ।
तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥