मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
यथा च तक्षोभयथा ॥ ४० ॥
एवं
तावच्छा
स्त्रार्थवत्त्वादिभिर्हेतुभिः
कर्तृत्वं
शारीरस्य
प्रदर्शितम्
।
तत्पुनः
स्वाभाविकं
वा
स्यात्
,
उपाधिनिमित्तं
वेति
चिन्त्यते
।
तत्रैतैरेव
शास्त्रार्थवत्त्वादिभिर्हेतुभिः
स्वाभाविकं
कर्तृत्वम्
,
अपवादहेत्वभावादिति
।
एवं
प्राप्ते
,
ब्रूमः
—
न
स्वाभाविकं
कर्तृत्वमात्मनः
सम्भवति
,
अनिर्मोक्ष
प्रसङ्गात्
।
कर्तृत्वस्वभावत्वे
ह्यात्मनो
न
कर्तृत्वान्निर्मोक्षः
सम्भवति
—
अग्नेरिवौष्ण्यात्
।
न
च
कर्तृत्वादनिर्मुक्तस्यास्ति
पुरुषार्थसिद्धिः
कर्तृत्वस्य
दुःखरूपत्वात्
।
ननु
स्थितायाम
पि
कर्तृत्वशक्तौ
कर्तृत्वकार्यपरिहारात्पुरुषार्थः
सेत्स्यति
।
तत्परिहारश्च
निमित्तपरिहारात्
—
यथाग्नेर्दहनशक्तियुक्तस्यापि
काष्ठवियोगाद्दहनकार्याभावः
—
तद्वत्
—
न
;
निमित्तानामपि
शक्तिलक्षणेन
सम्बन्धेन
सम्बद्धानामत्यन्तपरिहारासम्भवात्
।
ननु
मोक्षसाधनविधानान्मोक्षः
सेत्स्यति
—
न
;
साधनायत्तस्य
अनित्यत्वात्
।
अपि
च
नित्यशुद्धमुक्तात्मप्रतिपादनात्
मोक्षसिद्धिरभिमता
।
तादृगात्मप्रतिपादनं
च
न
स्वाभाविके
कर्तृत्वेऽवकल्पेत
।
तस्मात्
उपाधिधर्माध्यासेनैवात्मनः
कर्तृत्वम्
,
न
स्वाभाविकम्
।
तथा
च
श्रुतिः
—
‘
ध्यायतीव
लेलायतीव
’ (बृ. उ. ४ । ३ । ७)
इति
‘
आत्मेन्द्रियमनोयुक्तं
भोक्तेत्याहुर्मनीषिणः
’ (क. उ. १ । ३ । ४)
इति
च
—
उपाधिसम्पृक्तस्यैवात्मनो
भोक्तृत्वादिविशेषलाभं
दर्शयति
।
न
हि
विवेकिनां
परस्मादन्यो
जीवो
नाम
कर्ता
भोक्ता
वा
विद्यते
,
‘
नान्योऽतोऽस्ति
द्रष्टा
’ (बृ. उ. ४ । ३ । २३)
इत्यादिश्रवणात्
।
पर
एव
तर्हि
संसारी
कर्ता
भोक्ता
च
प्रसज्येत
।
परस्मादन्यश्चेच्चितिमाञ्जीवः
कर्ता
,
बुद्ध्यादिसङ्घातव्यतिरिक्तो
न
स्यात्
—
न
,
अविद्या
प्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः
।
तथा
च
शास्त्रम्
—
‘
यत्र
हि
द्वैतमिव
भवति
तदितर
इतरं
पश्यति
’ (बृ. उ. २ । ४ । १४)
इत्यविद्यावस्थायां
कर्तृत्वभोक्तृत्वे
दर्शयित्वा
,
विद्यावस्थायां
ते
एव
कर्तृत्वभोक्तृत्वे
निवारयति
—
‘
यत्र
त्वस्य
सर्वमात्मैवाभूत्तत्केन
कं
पश्येत्
’ (बृ. उ. २ । ४ । १४)
इति
।
तथा
स्वप्न
जागरितयोरात्मन
उपाधिसम्पर्ककृतं
श्रमं
श्येनस्येवाकाशे
विपरिपततः
श्रावयित्वा
,
तदभावं
सुषुप्तौ
प्राज्ञेनात्मना
सम्परिष्वक्तस्य
श्रावयति
—
‘
तद्वा
अस्यैतदाप्तकाममात्मकाममकामं
रूपं
शोका
न्तरम्
’ (बृ. उ. ४ । ३ । २१)
इत्यारभ्य
‘
एषास्य
परमा
गतिरेषास्य
परमा
सम्पदेषोऽस्य
परमो
लोक
एषो
ऽस्य
परम
आनन्दः
’ (बृ. उ. ४ । ३ । ३२)
इत्युपसंहारात्
॥
एवमिति
;
सङ्गतिं दर्शयन्वृत्तं कीर्तयति -
एवमिति ।