अनारब्धकार्यमग्निहोत्रादि विद्यायुक्तं केवलं च तद्धेतुस्वान्न क्षीयते ज्ञानेनेत्युक्तम् । इदानीमारब्धकार्ययोः शुभाशुभयोर्ज्ञानादनिवृत्तयोर्निवृत्तिप्रकारमाह -
भोगेनेति ।
निर्गुणब्रह्मविद्विषयः । स किं देहपातादूर्ध्वमपि संसारवान्नवेति तन्निमित्तभावाभावाभ्यां सन्देहे पू्र्वपक्षमग्रे दर्शयिष्यन्नादौ वृत्तानुवादेन सूत्रतात्पर्यमाह -
अनारब्धेति ।
अत्र श्रौत्रब्रह्मविद्यावतो भोगेनारब्धकर्मनिवृत्तौ ब्रह्मभावस्यावश्यम्भावेक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे ब्रह्मविदोऽपि न मुक्तिः । सिद्धान्ते तस्य साऽवश्यम्भाविनी सत्यां सामग्र्यां कार्यध्रौव्यात् । अनारब्धकार्य एवेत्यत्र नञारब्धकर्म निवृत्तेर्व्यावर्तितं तस्य फलं भोगेन क्षयलक्षणमधुना दर्शयतीत्युक्तम् । इदानीं निर्गुणब्रह्मविद्वानारब्धकर्मक्षयानन्तरमपि संसारी संसारसम्बन्धयोग्यत्वात्पूर्वकालीनब्रह्मविद्वानिवेत्यनुमानेन पूर्वपक्षमाह -
नन्विति ।
भोगनिमित्तकर्मवत्त्वमुपाधिरिति परिहरति -
नेत्यादिना ।
तदेव स्फुटयति -
उपभोगेति ।
तत्रेति प्राक्कालीनब्रह्मविदुक्तिः ।
देहपातोत्तरकालीनेऽपि ब्रह्मविदि भोगनिमित्तं किञ्चिद्भविष्यतीति साधनव्याप्तिमाशङ्क्याह -
नचेति ।
अनारब्धं कर्म जन्मान्तरारम्भकमिति कुतः साधनाव्याप्तिरिति शङ्कते -
नन्विति ।
तस्य ज्ञानेन प्रतिबद्धशक्तित्वान्मैवमित्याह -
न तस्येति ।
किं तस्य बीजं तदाह -
मिथ्येति ।
केन तर्हि तस्य दाहः स्यात्तद्दर्शयति -
तच्चेति ।
अथ सम्पत्स्य इत्यादिश्रुतिबाधनाद्बीजाभावस्य च विद्वदनुभवसिद्धत्वान्न पूर्वं कर्मानुमेयमिति भावः ।
प्रारब्धकर्मफलभोगादूर्ध्वं मोक्षेऽपि तत्कर्मजन्यानेकदेहसम्भवात्तत्र च विद्याप्रमोषोपपत्तेस्तत्कृतकर्मणामश्लेषाभावेन मुक्त्यभावमाशङ्क्याधिकारिणा देहान्तरे ज्ञानाप्रमोषस्यागमिकत्वादस्मदादीनामथ सम्पत्स्य इति श्रुतिसिद्धत्वादारब्धभोगानन्तरं मुक्तिरवश्यम्भाविनीत्यधिकरणार्थमुपसंहरति -
इत्यत इति ।
साधनानुष्ठानक्रमो निर्गुणविद्याफलं चोक्तमिति पादार्थभुपसंहर्तुमितीत्युक्तम् ॥ १९ ॥