ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशेषवतीइति विशयानानां विशेषवतीति तावत्प्राप्तम्भूताश्रयविशिष्टा ह्येषापुनर्भवाय भूतान्याश्रीयन्ते विदुषः पुनर्भवः सम्भवति; अमृतत्वं हि विद्वानश्नुतेइति स्थितिःतस्मादविदुष एव एषा उत्क्रान्तिःननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत्, स्वापादिवत् यथाप्राप्तानुकीर्तनात्यथा हि यत्रैतत्पुरुषः स्वपिति नाम’ (छा. उ. ६ । ८ । १), अशिशिषति नाम’ (छा. उ. ६ । ८ । ३), पिपासति नाम’ (छा. उ. ६ । ८ । ५) इति सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, तु विदुषो विशेषवन्तो विधित्स्यन्ते; एवम् इयमपि उत्क्रान्तिः महाजनगतैवानुकीर्त्यते, यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः सम्पद्यते आत्मा तत्त्वमसिइत्येतत्प्रतिपादयितुम्प्रतिषिद्धा एषा विदुषः तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इतितस्मात् अविदुष एवैषेति

उक्तोत्क्रान्तेरपरविद्यान्वयमन्वाचष्टे -

समाना चेति ।

उत्क्रान्तिर्विषयस्तत्र ‘विद्ययाऽमृतमश्नुते’ इति श्रुतेरस्य सोम्य पुरुषस्येत्यविशेषश्रुतेश्च संशयमाह -

सेयमिति ।

विशयानानां सन्दिहानानामित्यर्थः । श्रौतापरविद्यासु फलप्राप्त्युपयोगित्वेनोत्क्रान्त्यन्वयोक्त्या पादादिसङ्गतिः । पूर्वपक्षे विदुषो देहादनुत्क्रान्तस्य मोक्षसिद्धिः ।

सिद्धान्ते तस्यापीतरवत्तस्मादुत्क्रान्तेरप्रतिबन्धेन तत्सिद्धिरित्यङ्गीकृत्य विद्ययामृतमश्नुत इति सगुणोपासकानामप्यमृतत्वफलावगमात्सगुणब्रह्मविदो नैवोत्क्रान्तिरिति पूर्वपक्षयति -

विशेषेति ।

अविदुष एवोत्क्रान्तिरिति विशेषवत्त्वमेव दर्शयति -

भूतेति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

वस्तुतत्त्वप्रतिपादनाय लोकसिद्धधर्माणामनूद्यमानन्त्वान्न प्रकरणं विद्वद्विषयमिति समाधत्ते -

नेत्यादिना ।

दृष्टान्तं विवृणोति -

यथेति ।

दार्ष्टान्तिकं विभजते -

एवमिति ।

उत्क्रान्तेर्विद्वद्विषयत्वाभावे हेत्वन्तरमाह -

प्रतिषिद्धेति ।

विशेषवत्त्वमुत्क्रान्तेरुक्तमुपसंहरति -

तस्मादिति ।