ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
एवं प्राप्ते, ब्रूमःसमाना चैषा उत्क्रान्तिःवाङ्मनसिइत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अविशेषश्रवणात्अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवितुं संसरति, विद्वांस्तु ज्ञानप्रकाशितं मोक्षनाडीद्वारमाश्रयतेतदेतत्आसृत्युपक्रमात्इत्युक्तम्ननु अमृतत्वं विदुषा प्राप्तव्यम् , तद्देशान्तरायत्तम् , तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ? अत्रोच्यतेअनुपोष्य , इदम् , अदग्ध्वा अत्यन्तमविद्यादीन्क्लेशान् , अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते, सम्भवति तत्र सृत्युपक्रमः भूताश्रयत्वं हि निराश्रयाणां प्राणानां गतिरुपपद्यते; तस्माददोषः ॥ ७ ॥

सृतेर्मार्गस्योपक्रमादर्वाक्कर्मिणां सगुणोपासकानां च तुल्यैवोत्क्रान्तिरिति सिद्धान्तयति -

एवमिति ।

अस्य सोम्येत्याद्यविशेषश्रुतेर्विद्वदविदुषोः साधारणी चेदुत्क्रान्तिस्तर्हि तयोर्विशेषाभावाद्विद्यावैयर्थ्यं, तत्राह -

अविद्वानिति ।

अवाङ्नाडीभिरविद्वान्पितृलोकं लोकान्तरं वा स्वकर्मानुसारेण प्रतिपद्यते विद्वान्पुनर्मूर्धन्यया नाड्या ब्रह्मलोकमिति विशेषस्तयोरित्यर्थः ।

सृतिः सरणं देवयानो मार्गस्तदुपक्रमात्तुल्योत्क्रान्तिरित्युक्तेऽर्थे सूत्रावयवं पातयति -

तदेतदिति ।

अवशिष्टसूत्रावयवव्यावर्त्यां शङ्कामाह -

नन्विति ।

सूत्रावयवमुत्तरत्वेनावतार्य व्याकरोति -

अत्रेति ।

मनसैतान्कामान्पश्यन्रमते स एकधा भवतीत्यादिश्रुतेरर्चिरादिमार्गगमनेन सेन्द्रियस्य फलभोगप्रतिपादनादिन्द्रियाणां च निराश्रयाणां गमनायोगाज्जीवस्यापि तदाश्रयभूताश्रयस्य गतिरवगतेत्याह -

नहीति ।

अपरविद्यास्वमृतत्वमापेक्षिकमिति स्थिते तत्रोत्क्रान्त्यन्वयो युक्त इत्युपसंहरति -

तस्मादिति ॥ ७ ॥