ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इत्यत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवतिकीदृशी पुनरियं सम्पत्तिः स्यादिति चिन्त्यतेतत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् , तत्प्रकृतित्वोपपत्तेःसर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम्तस्मात् आत्यन्तिकी इयमविभागापत्तिरितिएवं प्राप्ते ब्रूमःतत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीतेः आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठतेयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनःस्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इत्यादिसंसारव्यपदेशात्अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत, तत्र विधिशास्त्रमनर्थकं स्यात् , विद्याशास्त्रं मिथ्याज्ञाननिमित्तश्च बन्धो सम्यग्ज्ञानादृते विस्रंसितुमर्हतितस्मात् तत्प्रकृतित्वेऽपि सुषुप्तप्रलयवत् बीजभावावशेषैव एषा सत्सम्पत्तिरिति ॥ ८ ॥

उक्तोत्क्रान्तिकाले या सत्सम्पत्तिस्तत्स्वरूपं निरूपयति -

तदाऽपीतेरिति ।

उदाहरणवाक्यस्यार्थोक्तिपूर्वकमधिकरणस्य विषयं दर्शयति -

तेज इति ।

बीजभावावशेषां सत्सम्पत्तिं सिद्धवत्कृत्य विदुषोऽप्युत्क्रान्तिरुक्ता, सम्प्रति सम्पत्तेरुभयथादृष्टेरात्यन्तिकी सत्सम्पत्तिरनात्यन्तिकी वेति संशयमाह -

कीदृशीति ।

उत्क्रान्तिकालीनसत्सम्पत्तेः श्रुतायाः सावशेषत्वसाधनात्पादादिसङ्गतिः । पूर्वपक्षे देहादुत्क्रान्तस्यापुनरावृत्तिः ।

सिद्धान्ते तस्यापि ज्ञानहीनस्य पुनरावृत्तिरिति विवक्षित्वा पू्र्वपक्षयति -

तत्रेति ।

पूर्वोक्तातत्प्रकृतित्वहेतोरभावादिति हेतुमाह -

तत्प्रकृतित्वेति ।

उपपत्तिमेव दर्शयति -

सर्वस्येति ।

विमता तत्सम्पत्तिरात्यान्तिक्यन्तकालीनसत्सम्पत्तित्वाद्ब्रह्मविदः सत्संपत्तिवदित्युपसंहरति -

तस्मादिति ।

सिद्धान्तसूत्रमादाय व्याकृर्वन्नुक्तानुमानस्य श्रुतिविरोधमाह -

एवमिति ।

उत्क्रान्तिकालीनसत्सम्पत्तेरात्यन्तिकत्वे दोषान्तरमाह -

अन्यथेति ।

इष्टापत्तिमाशङ्क्य देहान्तरभोगाय कर्मविध्यनुपपत्तिरित्यनुमानस्य बाधकान्तरमाह -

तत्रेति ।

ज्ञानविध्यनुपपत्त्यापि बाधितमनुमानमिति मत्वा ब्रूते -

विद्येति ।

युक्तितोऽपि बाधितं तदित्याह -

मिथ्येति ।

निदाननाशातिरेकेण निदानिनाशो नात्यन्तिको युक्त इत्यर्थः ।

यत्तु तत्प्रकृतित्वोपपत्तेरिति, तत्राह -

तस्मादिति ।

श्रुतार्थापत्तियुक्तिविरोधस्तच्छब्दार्थः ॥ ८ ॥