विदुषः सत्यसङ्कल्पत्वे लाभान्तरमाह -
अत इति ।
उपासितुरीश्वराधीनो भोगो न सङ्कल्पमात्राद्भवितुमलमित्याशङ्क्य सूत्रं व्याकरोति -
अत एवेति ।
सत्यसङ्कल्पत्वेऽपि कथमीश्वराधीनत्वं विदुषो नेष्यते, तत्राह -
नहीति ।
ईश्वरप्रसादाद्भोगः स्यादित्यपि प्रार्थयमानो जनो दृश्यत इत्याशङ्क्याह -
सत्यामिति ।
विदुषोऽनन्याधीनमैश्वर्यमस्तीत्यत्र मानमाह -
श्रुतिश्चेति ।
विद्यानुवादद्वारा तत्फलोक्त्यारम्भार्थोऽथशब्दः ॥ ९ ॥