ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अभावं बादरिराह ह्येवम् ॥ १० ॥
सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यतः श्रुतेः मनस्तावत्सङ्कल्पसाधनं सिद्धम्शरीरेन्द्रियाणि पुनः प्राप्तैश्वर्यस्य विदुषः सन्ति, वा सन्तिइति समीक्ष्यतेतत्र बादरिस्तावदाचार्यः शरीरस्येन्द्रियाणां अभावं महीयमानस्य विदुषो मन्यतेकस्मात् ? एवं हि आह आम्नायःमनसैतान्कामान्पश्यरमते’ (छा. उ. ८ । १२ । ५) एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इतियदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं स्यात्तस्मादभावः शरीरेन्द्रियाणां मोक्षे ॥ १० ॥

विदुषो ब्रह्मीभूतस्य सप्रपञ्चत्वनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकताभ्यां व्यवस्थामुक्त्वा सङ्कल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयित्वा पदपदार्थधीमात्रेण श्रुतेरपेक्षायामपि वाक्यार्थबोधने तदभावाद्विमतो यत्नाद्यनपेक्षसङ्कल्पजन्यो योगजन्यसामर्थ्यदृष्टत्वादगस्त्यकृतसमुद्रपानवदित्यनुमानानुगृहीतश्रुत्या बाधितत्वादनुमानस्य सङ्कल्पमात्रसिद्ध्या विदुषो भोगहेतुसिद्धिरित्युक्तम् । संप्रत्यवधारणादन्ययोगव्यवच्छेदेन सङ्कल्पस्यैव पित्रादिसाधनत्ववदिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति -

अभावमिति ।

मनसः सद्भावोऽपि किमिति विदुषो न विचार्यते, तत्राह -

सङ्कल्पादेवेति ।

शरीरेन्द्रियाणि विषयस्तानि किं विद्यावतो मुक्तस्य सन्ति किंवा न सन्त्याहो सन्ति च न सन्ति चेति वादिविप्रतिपत्तेः संशयमाह -

शरीरेति ।

अत्र सगुणब्रह्मविदः सङ्कल्पादेव देहादिभावाभावयोरुक्त्या ब्रह्मधीफलविभूतेरुक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे विशेषणश्रुतेरनेकधाभावश्रुतेर्वा मुख्यार्थत्वसिद्धिः ।

सिद्धान्ते द्वयोरपि श्रुत्योर्विदुषः सत्यसङ्कल्पत्वादेव मुख्यार्थत्वोपपत्तिरित्यङ्गीकृत्य पूर्वपक्षसूत्रं योजयति -

तत्रेति ।

सत्यामपि विप्रतिपत्तावभावनियमासिद्धिरिति शङ्कते -

कस्मादिति ।

विशेषणश्रुत्या परिहरति -

एवं हीति ।

पक्षान्तरेऽपि विशेषणमयोगव्यवच्छेदकत्वेन युक्तमित्याशङ्क्याह -

यदीति ।

अन्ययोगव्यवच्छेदाय मनसेतिविशेषणाद्वामेन पश्यतीत्यादाविवेतरव्यावृत्तिर्गम्यते । अयोगव्यवच्छेदे तु न तथा विशेषणमर्थवदित्यर्थः ।

विशेषणफलमुपसंहरति -

तस्मादिति ॥ १० ॥