शङ्कोत्तरत्वेन सूत्रमवतारयति -
अत इति ।
प्रतिज्ञां व्याचष्टे -
स्वाप्यय इति ।
उक्तमेव व्यक्तीकर्तुं विभजते -
क्वचिदिति ।
तत्केन कमित्यादिकं वाक्यं क्वचिदित्युच्यते द्वितीयस्तु क्वचिच्छब्दः सलिलादिवाक्यगोचरः ।
हेतुभागमाकाङ्क्षाद्वारा व्याकरोति -
कथमित्यादिना ।
तत्रेत्युक्तवाक्यप्रकरणोक्तिः । तदधिकारः सुषुप्तिमोक्षयोरन्यतरस्य प्रकरणम् । तत्र समुत्थानवाक्यं यत्र सुप्तवाक्यं स्वापाधिकारविषयम् । यत्र त्वस्येति मोक्षाधिकारविषयमिति भेदः ।
विशेषज्ञानाभावाभिधानं सुप्तिमुक्त्योरन्यतराभिप्रायेणेत्युक्तम् । इदानीमैश्वर्याभिधानस्य सगुणविद्याविषयत्वेन भिन्नगोचरत्वान्न विरोधाशङ्केत्याह -
सगुणेति ।
कथं तर्हि सगुणविद्याफले मुक्तिशब्दप्रवृत्तिरित्याशङ्क्य सन्ध्यायां दिवाशब्दवत्प्रत्यासत्तिमात्रेणेति मत्वाह -
तस्मादिति ॥ १६ ॥