मनोेदेहसर्गादावुत्सर्गतो यदैश्वर्यमुपासितुरुक्तं तस्य जगत्सर्गेऽप्रमाणादपवादं दर्शयति
जगदिति ।
अपरब्रह्मणा सायुज्यं गतानामैश्वर्यं विषयीकृत्य तस्योभयथादृष्ट्या संशयमाह -
ये सगुणेति ।
सगुणब्रह्मविद्याफलभूतैश्वर्यस्य निरतिशयत्वनिवारणात्पादादिसङ्गतिः । पूर्वपक्षे विद्वदैश्वर्यस्य निरङ्कुशत्वादीश्वरभेदादनेकमत्या जगदुत्पत्यादिव्यवस्थाऽसिद्धिः ।
सिद्धान्ते तद्भेदाभावात्परमेश्वराधीनतया जगदुदयादिव्यवस्थोपपत्तिरित्यभिप्रेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
श्रुतीनां श्रुतार्थग्रहेण पूर्वपक्षयित्वा सिद्धान्तयति -
एवमिति ।
तत्र प्रतिज्ञां विभजते -
जगदिति ।
तत्र हेतुद्वयं प्रश्नपूर्वकमाह -
कुत इति ।
ईश्वरस्य नित्यसिद्धस्यैव जगदुत्पत्त्यादिव्यापार इत्यत्र प्रकरणादिति हेतुं विवृणोति -
पर इति ।
प्रलयादुत्थानकाले सर्वस्य जगतो यः कर्ता तस्यैव स्थित्यादावपि कर्तृत्वोक्तेरन्यस्य चादिसर्गे कर्तृत्वाभावादीश्वरस्यैव जगद्व्यापारे संनिधिरित्याह -
तमेवेति ।
किञ्च परस्यैव नित्यत्वेन स्वहेत्वनपेक्षणस्य क्लृप्तशक्तित्वाज्जगत्सर्जनं प्रति कल्प्यसामर्थ्यत्वाच्च विदुषामीश्वरविषयैव जगत्सृष्टिरेष्टव्या ।
किञ्च पौर्वापर्यालोचनायामीश्वरस्यैव जगत्सर्गः शब्दाद्गम्यते । जन्मादिसूत्रमारभ्य चैतदुपपादितम् । ततोऽद्वितीयप्रतिज्ञा सिद्धैवेत्याह -
नित्येति ।
ईश्वरस्य जगद्व्यापारे संनिधिमुक्त्वा विदुषां तत्रासंनिधिमाद्यप्रतिज्ञासिद्ध्यर्थं समर्थयते -
तदन्वेषणेति ।
श्रुयते तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादाविति शेषः । सृष्ट्युत्तरभाविनामुपासकानां सृष्टिकाले सत्त्वाभावात्पूर्वकल्पसिद्धानां प्रलयकाले मुक्तत्वान्न स्रष्टृत्वादि तेषां श्लिष्टमित्यर्थः ।
इतश्च विदुषां न निरङ्कुशैश्वर्यमित्याह -
समनस्कत्वादिति ।
किं विदुषां समप्रधानत्वमाहो गुणप्रधानत्वम् । आद्ये समप्रधानानां नियमेनैकमत्यादर्शनादेकस्य सिसृक्षायमपरस्य सञ्जिहीर्षासम्भवादपर्यायमेव सर्गसंहारौ स्याताम् । अपरथा द्वयोरपि नेश्वरत्वं कार्यविघातादित्यर्थः ।
द्वितीयमनुभाष्य दूषयति -
अथेत्यादिना ।
एकाभिप्रायानुवर्तितायामन्येषामागन्तुकैश्वर्याणामगृह्यमाणविशेषतया कस्यचित्प्राधान्यायोगादनागन्तुकैश्वर्यपरमेश्वरवर्तित्वमितरेषामेषितव्यमित्यर्थः ॥ १७ ॥