अधिकारे प्रकरणे । स आननदमयो रसः । ननु लब्धृलब्धव्यभावेऽप्यभेदः किं न स्यादत आह
नहि लब्धैवेति ।
ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते
कथमिति ।
यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः ।
उक्तां शङ्कामङ्गीकरोति
बाढमिति ।
तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह
तथापीति ।
अभेदेऽपीत्यर्थः । लौकिकः भ्रमः । आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः । अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् ।
ननु भेदः सत्य एवास्तु, तत्राह
प्रतिषिध्यत इति ।
अत ईश्वराद्द्रष्टा जीवोऽन्यो नास्तीति चेज्जीवाभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह
परमेश्वर इति ।
अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् । कल्पितस्याधिष्ठानाभेदेऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह
यथेति ।
सूत्रारूढः स्वतोऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिथ्यात्वे दृष्टान्तान्तरमाह
यथावेति ।
ननु सूत्रबलाद्भेदः सत्य इत्यत आह
ईदृशं चेति ।
कल्पितमेवेत्यर्थः । सूत्रे भेदः सत्य इति पदाभावात् , 'तदनन्यत्व' आदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः ॥ १७ ॥