ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
कामाच्च नानुमानापेक्षा ॥ १८ ॥
आनन्दमयाधिकारे सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति कामयितृत्वनिर्देशात् नानुमानिकमपि साङ्ख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय ॥ १८ ॥

नन्वानन्दात्मकसत्त्वप्रचुरं प्रधानमानन्दमयमस्तु, तत्राह

कामाच्चेति ।

अनुमानगम्यमानुमानिकम् ।

पुनरुक्तिमाशङ्क्याह

ईक्षतेरिति ॥ १८ ॥