ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इतश्च प्रधाने जीवे वानन्दमयशब्दः; यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि, प्रतिबुद्धस्यास्य जीवस्य, तद्योगं शास्तितदात्मना योगस्तद्योगः, तद्भावापत्तिः, मुक्तिरित्यर्थःतद्योगं शास्ति शास्त्रम्यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दतेअथ सोऽभयं गतो भवतियदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुतेअथ तस्य भयं भवति’ (तै. उ. २ । ७ । १)इतिएतदुक्तं भवतियदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्ततेयदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इतितच्च परमात्मपरिग्रहे घटते, प्रधानपरिग्रहे जीवपरिग्रहे वातस्मादानन्दमयः परमात्मेति स्थितम् ॥ १९ ॥

अस्मिन्निति

विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।

जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह

तदात्मनेति ।

जीवस्य जीवाभेदोऽस्तीत्यत आह

मुक्तिरिति ।

अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसम्बन्धमात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।