अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्विह वक्तव्यम् — ‘स वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)‘तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् ‘अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् ‘अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति च विकारार्थे मयट्प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णिकब्रह्माधिकारादिति चेत् , न; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अत्राह — युक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् । आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते । तेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रोच्यते — यद्यप्यन्नमयादिभ्य इवानन्दमयात् ‘अन्योऽन्तर आत्मा’ इति न श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयते — ‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इति । तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिह ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः । नन्वानन्दमयस्यावयवत्वेन ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते, अन्नमयादीनामिव ‘इदं पुच्छं प्रतिष्ठा’ इत्यादि । तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमः । नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति । अत्रोच्यते — तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तम् ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात्। नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादिति । अपि च ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यते — ‘तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इति । अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ? नैष दोषः । पुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् । निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात् — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । अपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथा च सति ‘यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत । प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् । ब्रह्म तु न प्रतिशरीरं भिद्यते, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति च श्रुत्यन्तरात् । न चानन्दमयस्याभ्यासः श्रूयते । प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते — ‘रसो वै सः । रसꣳ ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)‘सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति च । यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत । न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम । तस्माच्छ्रुत्यन्तरे ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् । यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, न तस्य ब्रह्मविषयत्वमस्ति । विकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात् । नन्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत् । नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्येष श्लोको भवति’ ‘यतो वाचो निवर्तन्ते’ इत्यादिना च प्रपञ्च्यमानत्वात् । या त्वानन्दमयसन्निधाने ‘सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, सा ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ‘रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयता । ननु ‘सोऽकामयत’ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् । या तु भार्गवी वारुणी विद्या — ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते । न चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, न प्राचुर्यार्थः ॥