ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेतिपुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यतेआनन्दमयोऽभ्यासात्आनन्दमय आत्मा इत्यत्रब्रह्म पुच्छं प्रतिष्ठाइति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्यासात्असन्नेव भवतिइत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्विकारशब्दान्नेति चेन्न प्राचुर्यात्विकारशब्देनावयवशब्दोऽभिप्रेतः; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः; अत्रोच्यतेनायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्याब्रह्म पुच्छं प्रतिष्ठाइत्याह, नावयवविवक्षया; यत्कारणम्अभ्यासात्इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्तद्धेतुव्यपदेशाच्चसर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यतेइदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यतेअपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥

वेदसूत्रयोर्विरोधे 'गुणे त्वन्याय्यकल्पना' इति सूत्राण्यन्यथा नेतव्यानीत्याह

सूत्राणीति ।

पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् । तर्ह्यत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात्संशयोऽस्तीत्यवयवप्रायपाठो निश्चायक इति पूर्वाधिकरणसिद्धान्तयुक्त्यभावेन पूर्वपक्षयति

पुच्छशब्दादिति ।

तथाच प्रत्युदाहरणसङ्गतिः । पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् । वेदान्तवाक्यसमन्वयोक्तेः श्रुत्यादिसङ्गतयः स्फुटा एव । सूत्रस्थानन्दमयपदेन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते । विक्रियतेऽनेनेति विकारोऽवयवः ।

प्रायापत्तिरिति ।

अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः । अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति । तत्रानन्दमयस्यापि अवयवान्तरोक्त्यनन्तरं कस्मिंश्चित्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् । तस्यानन्दमयाधारत्वेनावश्यंवक्तव्यत्वादित्यर्थः ।

तद्धेतुव्यपदेशाच्च ॥ १४ ॥

तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् । प्रियादिविशिष्टत्वाकारेणानन्दमयस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।

मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥

'ब्रह्मविदाप्नोति परम्' इति यस्य ज्ञानान्मुक्तिरुक्ता, यत् 'सत्यं ज्ञानम्' इति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते, ब्रह्मपदसंयोगात् । नानन्तमयवाक्य इत्यर्थः ।

नेतरो अनुपपत्तेः ॥ १६ ॥

इतरा आनन्दमयो जीवोऽत्र न प्रतिपाद्यः । सर्वस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः ।

भेदव्यपदेशाच्च ॥ १७ ॥

अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्याप्रतिपाद्यतेत्यर्थः ।

आनन्दमयो ब्रह्म, तैत्तरीयकपञ्चमस्थानस्थत्वात्भृगुवल्लीस्थानन्दवदित्याशङ्क्याह

कामाच्च नानुमानापेक्षा ॥ १८ ॥

काम्यत इति काम आनन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्या, विकारार्थकमयड्विरोधादित्यर्थः ।

भेदव्यपदेशाच्चेत्सगुणं ब्रह्मात्र वेद्यं स्यादित्याशङ्क्याह

अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥

गुहानिहितत्वेन प्रतीचि 'स एकः' इत्युपसंहृते पुच्छवाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य 'यदा हि' इति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गुणब्रह्मैक्यज्ञानार्थं जीवभेदानुवाद इत्यभिप्रेत्याह

अपराण्यपीति ॥ १९ ॥