अक्षरमम्बरान्तधृतेः ॥ १० ॥
‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।’ (बृ. उ. ३ । ८ । ७)‘स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादि श्रूयते । तत्र संशयः — किमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इति । तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात् , ‘ओंकार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात् , वर्ण एवाक्षरशब्द इत्येवं प्राप्ते, उच्यते — पर एवात्माक्षरशब्दवाच्यः । कस्मात् ? अम्बरान्तधृतेः; पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् । तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य ‘आकाश एव तदोतं च प्रोतं च’ इत्याकाशे प्रतिष्ठितत्वमुक्त्वा, ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ७) इत्यनेन प्रश्नेनेदमक्षरमवतारितम् । तथा चोपसंहृतम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति । न चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवति । यदपि ‘ओंकार एवेदं सर्वम्’ इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम् । तस्मान्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ १० ॥