ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
एतेन योगः प्रत्युक्तः ॥ ३ ॥
एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशतितत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् , महदादीनि कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्तेनन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम्; किमर्थं पुनरतिदिश्यतेअस्ति ह्यत्राभ्यधिकाशङ्कासम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितःश्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति; त्रिरुन्नतं स्थाप्य समं शरीरम्’ (श्वे. उ. २ । ८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यतेलिङ्गानि वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्तेतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ (क. उ. २ । ३ । ११) इति, विद्यामेतां योगविधिं कृत्स्नम्’ (क. उ. २ । ३ । १८) इति चैवमादीनियोगशास्त्रेऽपि — ‘अथ तत्त्वदर्शनोपायो योगःइति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियतेअतः सम्प्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीतिइयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसम्प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु साङ्ख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतःसाङ्ख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन श्रौतेनोपबृंहितौतत्कारणं साङ्ख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे. उ. ६ । १३) इतिनिराकरणं तु साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इतिश्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयतितमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इतिद्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनःयत्तु दर्शनमुक्तम्तत्कारणं साङ्ख्ययोगाभिपन्नम्इति, वैदिकमेव तत्र ज्ञानं ध्यानं साङ्ख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्येन त्वंशेन विरुध्येते, तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्; तद्यथाअसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन साङ्ख्यैरभ्युपगम्यतेतथा यौगैरपि अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यतेएतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानितान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् , उपकुर्वन्तु नामतत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवतिनावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥

ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति सन्देहे पूर्वन्यायमतिदिशति -

एतेन योगः प्रत्युक्तः ।

अतिदेशत्वात्पूर्ववत्सङ्गत्यादिकं द्रष्टव्यम् ।

पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह -

अस्तिह्यत्रेति ।

निदिध्यासनं योगः । त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतं त्रिरुन्नतमितिपाठश्चेच्छान्दसः । युञ्जीतेति शेषः ।

न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह -

लिङ्गानि चेति ।

तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते । उक्तामेतां ब्रह्मविद्यां योगविधिं ध्यानप्रकारं च मृत्युप्रसादान्न चिकेता लब्ध्वा ब्रह्म प्राप्त इति सम्बन्धः । योगस्मृतिः प्रधानादितत्त्वांशेऽपि प्रमाणत्वेन स्वीकार्या । सम्प्रतिपन्नः प्रामाणिकोऽर्थैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः । 'अष्टकाः कर्तव्याः', 'गुरुरनुगन्तव्यः' इत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे ।

एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशेऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति -

इयमिति ।

ननु बौद्धादिस्मृतयोऽत्र किमिति न निराकृता इत्यत आह -

सतीष्वपीति ।

तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः ।

तत्कारणमिति ।

तेषां प्रकृतानां कामानां कारणं साङ्ख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः ।

समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह -

निराकरणं त्विति ।

इति हेतोः । कृतमिति शेषः ।

प्रत्यासत्तेरिति ।

श्रुतिस्थसाङ्ख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् ।

किं सर्वांशेषु स्मृत्यप्रामाण्यम् , नेत्याह -

येन त्वंशेनेति ।

ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति -

एतेनेति ।

श्रुतिविरोधेनेत्यर्थः ।

उपकारकबाधो न युक्त इत्याशङ्क्य यों 'श उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह -

तान्यपीति ।

तर्कोऽनुमानम् ,तदनुग्राहिको युक्तिरुपपत्तिः ॥३॥