ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति सन्देहे पूर्वन्यायमतिदिशति -
एतेन योगः प्रत्युक्तः ।
अतिदेशत्वात्पूर्ववत्सङ्गत्यादिकं द्रष्टव्यम् ।
पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह -
अस्तिह्यत्रेति ।
निदिध्यासनं योगः । त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतं त्रिरुन्नतमितिपाठश्चेच्छान्दसः । युञ्जीतेति शेषः ।
न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह -
लिङ्गानि चेति ।
तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते । उक्तामेतां ब्रह्मविद्यां योगविधिं ध्यानप्रकारं च मृत्युप्रसादान्न चिकेता लब्ध्वा ब्रह्म प्राप्त इति सम्बन्धः । योगस्मृतिः प्रधानादितत्त्वांशेऽपि प्रमाणत्वेन स्वीकार्या । सम्प्रतिपन्नः प्रामाणिकोऽर्थैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः । 'अष्टकाः कर्तव्याः', 'गुरुरनुगन्तव्यः' इत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे ।
एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशेऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति -
इयमिति ।
ननु बौद्धादिस्मृतयोऽत्र किमिति न निराकृता इत्यत आह -
सतीष्वपीति ।
तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः ।
तत्कारणमिति ।
तेषां प्रकृतानां कामानां कारणं साङ्ख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः ।
समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह -
निराकरणं त्विति ।
इति हेतोः । कृतमिति शेषः ।
प्रत्यासत्तेरिति ।
श्रुतिस्थसाङ्ख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् ।
किं सर्वांशेषु स्मृत्यप्रामाण्यम् , नेत्याह -
येन त्वंशेनेति ।
ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति -
एतेनेति ।
श्रुतिविरोधेनेत्यर्थः ।
उपकारकबाधो न युक्त इत्याशङ्क्य यों 'श उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह -
तान्यपीति ।
तर्कोऽनुमानम् ,तदनुग्राहिको युक्तिरुपपत्तिः ॥३॥