ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
तुशब्द आशङ्कामपनुदति खलुमृदब्रवीत्इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् , यतोऽभिमानिव्यपदेश एषः; मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, भूतेन्द्रियमात्रम्कस्मात् ? विशेषानुगतिभ्याम्विशेषो हि भोक्तॄणां भूतेन्द्रियाणां चेतनाचेतनप्रविभागलक्षणः प्रागभिहितःसर्वचेतनतायां चासौ नोपपद्येतअपि कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिंषन्ति — ‘एता वै देवता अहंश्रेयसे विवदमानाःइति, ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा’ (कौ. उ. २ । १२) इति अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्तेअग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. आ. २ । ४ । २ । ४) इत्येवमादिका श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयतिप्राणसंवादवाक्यशेषे ते प्राणाः प्रजापतिं पितरमेत्योचुः’ (छा. उ. ५ । १ । ७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम् , तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः, तस्मै बलिहरणम् इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति । ‘तत्तेज ऐक्षतइत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम्तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत्; विलक्षणत्वाच्च ब्रह्मप्रकृतिकम् ॥ ५ ॥

मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात् , तथा 'विज्ञानं चाविज्ञानं च' इति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति साङ्ख्यः समाधत्ते -

अभिमानीति ।

संवदनं विवादः । न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते । लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः ।

विशेषपदस्यार्थान्तरमाह -

अपि चेति ।

अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात्प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः । प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।

अनुगतिं बहुधा व्याचष्टे -

अनुगताश्चेति ।

तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् । तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः । यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः ॥५॥