मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
ननु
चेतनत्वमपि
क्वचिदचेतनत्वाभिमतानां
भूतेन्द्रियाणां
श्रूयते
—
यथा
‘
मृदब्रवीत्
’
‘
आपोऽब्रुवन्
’ (श. ब्रा. ६ । १ । ३ । २ । ४)
इति
‘
तत्तेज
ऐक्षत
’ (छा. उ. ६ । २ । ३)
,
‘
ता
आप
ऐक्षन्त
’ (छा. उ. ६ । २ । ४)
इति
चैवमाद्या
भूतविषया
चेतनत्वश्रुतिः
।
इन्द्रियविषयापि
—
‘
ते
हेमे
प्राणा
अहंश्रेयसे
विवदमाना
ब्रह्म
जग्मुः
’ (बृ. उ. ६ । १ । ७)
इति
,
‘
ते
ह
वाचमूचुस्त्वं
न
उद्गायेति
’ (बृ. उ. १ । ३ । २)
इत्येवमाद्येन्द्रियविषयेति
।
अत
उत्तरं
पठति
—
नन्विति
;
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते -
नन्विति ।