ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति, आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति, ‘ काचन मद्बहिर्धा विद्यास्तिइति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायतेतस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् , यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात्व्यतिरेके हि सति एकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत चाव्यतिरेक एवमुपपद्यते, यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येतशब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यतेतथा हि — ‘येनाश्रुतं श्रुतꣳ भवतिइति प्रतिज्ञाय, मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यतेतत्साधनायैव चोत्तरे शब्दाःसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १)तदैक्षततत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्य, अव्यतिरेकं प्रदर्शयन्तिऐतदात्म्यमिदꣳ सर्वम्’ (छा. उ. ६ । ८ । ७) इत्यारभ्य प्रपाठकपरिसमाप्तेःतद्यद्याकाशं ब्रह्मकार्यं स्यात् , ब्रह्मणि विज्ञाते आकाशं विज्ञायेतततश्च प्रतिज्ञाहानिः स्यात् प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम्तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्तिइदꣳ सर्वं यदयमात्मा’ (छा. उ. २ । ४ । ६) ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्येवमादयःतस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते

एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -

प्रतिज्ञेति ।

अहानिरबाधः । सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।

न काचनेति ।

आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।

ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात् , किमुत्पत्त्येत्यत आह -

शब्देभ्यश्चेति ।

अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।अयं भावःजीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः । अज्ञानतत्सम्बन्धयोः कल्पितत्वेनाव्यतिरेकः । स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् । तथाहुर्न्यायविदः 'नित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानि' इति ।

तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह -

तथा हीति ।

तेन तेन दृष्टान्तेनेति ।

यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः । यजुषि प्रतिज्ञासाधका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मैवेदम्' इति शब्दा इति भावः ।