ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
यदुक्तम्अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम् , वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात्तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इतिसत्यं दर्शितम् , विरुद्धं तुतत्तेजोऽसृजतइत्यनेन श्रुत्यन्तरेण, एकवाक्यत्वात्सर्वश्रुतीनाम्भवत्वेकवाक्यत्वमविरुद्धानाम्इह तु विरोध उक्तःसकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धासम्भवाद्द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पासम्भवाच्चेतिनैष दोषःतेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात्तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरग्निः’ (तै. उ. २ । १ । १) इतिअशक्या हीयं श्रुतिरन्यथा परिणेतुम्शक्या तु परिणेतुं छान्दोग्यश्रुतिःतदाकाशं वायुं सृष्ट्वातत्तेजोऽसृजतइति हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापारद्वयासम्भवात्स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत्इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां विरुद्धार्थत्वेन श्रुतिर्हातव्या चास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धोऽभिप्रेयते, श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसङ्ग्रहात्यथा सर्वं खल्विदं ब्रह्म तज्जलान्’(छा॰उ॰ ३-१४-१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हतिननु शमविधानार्थमेतद्वाक्यम् — ‘तज्जलानिति शान्त उपासीतइति श्रुतेःनैतत्सृष्टिवाक्यम्तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममुपरोद्धुमर्हति । ‘तत्तेजोऽसृजतइत्येतत्सृष्टिवाक्यम्तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इतिनेत्युच्यते हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्यअपि तत्तेजोऽसृजतइति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्तिअर्थात्तु क्रमोऽवगम्यते वायोरग्निः’ (तै. उ. २ । १ । १) इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यतेविकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसम्भवानभ्युपगमाभ्यां निवारितौतस्मान्नास्ति श्रुत्योर्विप्रतिषेधःअपि छान्दोग्येयेनाश्रुतꣳ श्रुतं भवतिइत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यातव्यम्; किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो सङ्गृह्यतेयच्चोक्तम्आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवतिअतो प्रतिज्ञा हीयते एकमेवाद्वितीयम्इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरितिअत्रोच्यते क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम्मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यतेक्षीरोदकन्यायेन सर्वविज्ञानं कल्प्यमानं सम्यग्विज्ञानं स्यात् हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यतेसावधारणा चेयम्एकमेवाद्वितीयम्इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यम् , मृदादिष्वपि हि तत्सम्भवात् तदपूर्ववदुपन्यसितव्यं भवतिश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इत्यादिनातस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ ६ ॥

एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति -

सत्यं दर्शितमिति ।

मुख्यसिद्धान्त्याह -

न । एकेति ।

'तत्तेजोऽसृजत' इति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्सम्बन्धे तित्तिरिक्रमबाधात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजःप्राथम्यभङ्गप्रसङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -

नैष दोष इति ।

अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् । छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः । यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।

किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुत्पत्तिश्चेत्युभयपरा । आद्ये न तद्वारणमित्याह -

न हीति ।

अविरोधादित्यर्थः ।

न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह -

एकस्येति ।

नन्वेकस्य स्रष्टुरनेकार्थसम्बन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आह -

स्रष्टा त्विति ।

एकस्य कर्तुरनेकार्थसम्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथक्सम्बन्धादित्यर्थः ।

फलितमाह -

इत्येकेति ।

एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसम्बन्धार्थमावृत्तिदोषः स्यादित्यत आह -

न चेति ।

छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकम् , तेजोजन्मत्वात् , तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे 'तदाकाशमसृजत' इति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।

श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -

यथा चेति ।

सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते -

नन्वित्यादिना ।

तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह -

नेत्युच्यत इति ।

किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -

न हीति ।

किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।

नाद्य इत्याह -

अपि चेति ।

द्वितीयमनूद्य दूषयति -

अर्थात्त्विति ।

यदुक्तं वस्तुनि विकल्पासम्भवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह -

विकल्पेति ।

न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह -

अपि चेति ।

वियदुपसङ्ग्राह्यमित्यन्वयः ।

वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति -

यच्चोक्तमित्यादिना ।

प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।

मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसम्भवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह -

न च वेदस्येति ।

माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् । आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।

प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह -

सावधारणेति ।

सर्वद्वैतनिषेधपरेत्यर्थः ।

उभयगौणत्वेऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह -

न चेत्यादिना ॥६॥