एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति -
सत्यं दर्शितमिति ।
मुख्यसिद्धान्त्याह -
न । एकेति ।
'तत्तेजोऽसृजत' इति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्सम्बन्धे तित्तिरिक्रमबाधात् , क्रमेणाकाशं सृष्ट्वा तेजोऽसृजतेति सम्बन्धे तेजःप्राथम्यभङ्गप्रसङ्गात् , वस्तुनि विकल्पासम्भवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात् नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति -
नैष दोष इति ।
अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनम् , तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यम् , बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् । छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् । तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः । यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।
किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुत्पत्तिश्चेत्युभयपरा । आद्ये न तद्वारणमित्याह -
न हीति ।
अविरोधादित्यर्थः ।
न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह -
एकस्येति ।
नन्वेकस्य स्रष्टुरनेकार्थसम्बन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आह -
स्रष्टा त्विति ।
एकस्य कर्तुरनेकार्थसम्बन्धो दृष्टः । न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् । नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव । आनयनस्य जलक्षीराभ्यां पृथक्सम्बन्धादित्यर्थः ।
फलितमाह -
इत्येकेति ।
एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसम्बन्धार्थमावृत्तिदोषः स्यादित्यत आह -
न चेति ।
छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकम् , तेजोजन्मत्वात् , तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे 'तदाकाशमसृजत' इति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।
श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह -
यथा चेति ।
सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते -
नन्वित्यादिना ।
तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम् , आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह -
नेत्युच्यत इति ।
किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह -
न हीति ।
किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।
नाद्य इत्याह -
अपि चेति ।
द्वितीयमनूद्य दूषयति -
अर्थात्त्विति ।
यदुक्तं वस्तुनि विकल्पासम्भवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति, नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह -
विकल्पेति ।
न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह -
अपि चेति ।
वियदुपसङ्ग्राह्यमित्यन्वयः ।
वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति -
यच्चोक्तमित्यादिना ।
प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः । उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।
मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसम्भवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह -
न च वेदस्येति ।
माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् । आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।
प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह -
सावधारणेति ।
सर्वद्वैतनिषेधपरेत्यर्थः ।
उभयगौणत्वेऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह -
न चेत्यादिना ॥६॥