एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति -
प्रतिज्ञेति ।
अहानिरबाधः । सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।
न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।
ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात् , किमुत्पत्त्येत्यत आह -
शब्देभ्यश्चेति ।
अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।अयं भावःजीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः । अज्ञानतत्सम्बन्धयोः कल्पितत्वेनाव्यतिरेकः । स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् । तथाहुर्न्यायविदः 'नित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानि' इति ।
तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह -
तथा हीति ।
तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः । यजुषि प्रतिज्ञासाधका' इदं सर्वम्' इतिशब्दाः, आथर्वणे 'ब्रह्मैवेदम्' इति शब्दा इति भावः ।