ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सहकारित्वेन च ॥ ३३ ॥
विद्यासहकारीणि एतानि स्युः, विहितत्वादेवतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिइत्यादिना; तदुक्तम्सर्वापेक्षा यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इति चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् , अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्यविधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते, नैवं विद्यातथा चोक्तम्अत एव चाग्नीन्धनाद्यनपेक्षा’ (ब्र. सू. ३ । ४ । २५) इतितस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात्नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, तस्य विद्याफलत्वम्अनित्यस्तु अपरः संयोगः तमेतं वेदानुवचनेन’ (बृ. उ. ४ । ४ । २२) इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम्यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥

सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि । तेषां भावस्तत्वं तेनेत्यर्थः । विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति -

न चेदमिति ।

विद्याया अविहितत्वान्नाङ्गपेक्षास्ति । अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः । तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः । कामनाया अनित्यत्वेऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् । सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः । इदञ्चऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् । यथाऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति । अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः ॥३३॥