आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति —
कथमिति ।
तत्र व्याख्येयं पदमादत्ते —
आत्मेतीति ।
तद्व्याचष्टे प्राणादीनीति ।
तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति —
स तथेति ।
तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् ।
कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —
वस्तुमात्रेति ।
स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह —
तथा चेति ।
आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति —
तस्मादिति ।
यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति —
एवमिति ।
तस्यार्थं स्फोरयति —
स्वेनेति ।
वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —
कस्मादित्यादिना ।
तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।