विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह —
आत्मेत्येवेति ।
अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः ।
इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह —
यत्साक्षादिति ।
उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह —
तत्रेति ।
कारकादीत्यादिपदं तदवान्तरभेदविषयम् ।
नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ‘पश्वादिभिश्चाविशेषादि’ति न्यायादत आह —
तस्यामिति ।
बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः ।
विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति —
पारिशेष्यादिति ।
श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह —
तस्मादिति ।
अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः ।