स्वप्नेऽपि शुद्धिरुक्ता किं सुषुप्तिग्रहेणेत्याशङ्क्याऽऽह —
यदेति ।
गतो भवति तदा सुतरामस्य शुद्धिः सिध्यतीति शेषः ।
तमेव सुप्तिकालं प्रश्नपूर्वकं प्रकटयति —
कदेति ।
विकल्पं व्यावर्तयति —
पूर्वं त्विति ।
वृत्तमनूद्य प्रश्नपूर्वकं सुषुप्तिगतिप्रकारं दर्शयति —
एवं तावदिति ।
हितफलप्राप्तिनिमित्तत्वान्नाड्यो हिता उच्यते ।
तासां देहसंबन्धानामन्वयव्यतिरेकाभ्यामन्नरसविकारत्वमाह —
अन्नेति ।
तासामेव मध्यमसंख्यां कथयति —
ताश्चेति ।
तासां च हृदयसंबन्धिनीनां ततो निर्गत्य देहव्याप्त्या बहिर्मुखत्वमाह —
हृदयादिति ।
ताभिरित्यादि व्याकर्तुं भूमिकाङ्करोति —
तत्रेति ।
शरीरं सप्तम्यर्थः ।
शरीरे करणानां बुद्धितन्त्रत्वे किं स्यात्तदाह —
तेनेति ।
तथाऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह —
तां विज्ञानमय इति ।
भोगशब्दो जागरविषयः ।
बुद्धिविकासमनुभवन्नात्मा जागर्तीत्युच्यते, तत्संकोचं चानुभवन्स्वपितीत्यत्र हेतुमाह —
बुद्धीति ।
बुद्ध्यनुविधायित्वं परामृश्य ताभिरित्यादि व्याचष्टे —
तस्मादिति ।
प्रत्यवसर्पणं व्यावर्तनम् ।
पदार्थमुक्त्वा वाक्यार्थमाह —
तप्तमिवेति ।
कर्मत्वे देहस्य कर्तृत्वे चाऽऽत्मनो दृष्टान्तद्वयम् ।
हृदयाकाशे ब्रह्मणि शेते विज्ञानात्मेत्युक्त्वा पुरीतति शयनमाचक्षाणस्य पूर्वापरविरोधः स्यादित्याशङ्क्याऽऽह —
स्वाभाविक इति ।
औपचारिकमिदं वचनमित्यत्र हेतुमाह —
न हीति ।
इयमवस्थेति प्रकृता सुषुप्तिरुच्यते ।
उक्तेषु दृष्टान्तेषु विवक्षितमंशं दर्शयति —
एषाञ्चेति ।
दुःखमपि तेषां प्रसिद्धमित्याशङ्क्याऽऽह —
विक्रियमाणानां हीति ।
कुमारादिस्वापस्यैव दृष्टान्तत्वं किं न स्यादित्याशङ्क्याऽऽह —
न तेषामिति ।
तत्स्वापस्य दृष्टान्तत्वमस्मत्स्वापस्य दार्ष्टान्तिकमिति विभागमाशङ्क्याऽऽह —
विशेषाभावादिति ।
क्वैष तदाऽभूदिति प्रश्नस्योत्तरमुपपादितमुपसंहरति —
एवमिति ।