स यथेत्यादेः संगतिं वक्तुं वृत्तं संकीर्तयति —
क्वैष इति ।
किं पुनराद्यप्रश्ननिर्णयेन फलति त्वम्पदार्थशुद्धिरित्याह —
अनेनेति ।
शुद्धिद्वारा ब्रह्मत्वं च तस्योक्तमित्याह —
असंसारित्वञ्चेति ।
उत्तरग्रन्थस्य तात्पर्यमाह —
कुत इति ।
पूर्वेणोत्तरस्य गतार्थत्वं शङ्कते —
नन्विति ।
स्थित्यवधेरेव निर्धारितत्वादागत्यवधेर्निर्दिधारयिषया प्रश्ने प्रतिवचनं सावकाशमित्याशङ्क्याऽऽह —
तथा सतीति ।
अपौरुषेयी श्रुतिरशेषदोषशून्यत्वादनतिशङ्कनीयेति सिद्धान्ती गूढाभिसन्धिराह —
किं श्रुतिरिति ।
न श्रुतिराक्षिप्यते निर्दोषत्वादिति पूर्ववाद्याह —
नेति ।
श्रुतेरनाक्षेपत्वे त्वदीयं चोद्यं निरवकाशमित्याह —
किं तर्हीति ।
तस्य सावकाशत्वं पूर्ववादी साधयति —
द्वितीयस्येति ।
पूर्ववादिन्यपादानादर्थान्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति —
एवं तर्हीति ।
कथमन्यार्थत्वं तदाह —
अस्त्विति ।
तर्हि तस्यामपादानार्थत्वेन पुनरुक्तत्वामवस्थायामित्यर्थः ।
एकदेशिनं पूर्ववादी दूषयति —
नेति ।
अपादानार्थतावदित्यपेरर्थः ।
तदेव सफुटयति —
आत्मनश्चेति ।
जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः ।
तर्हि भवत्वपादानार्था पञ्चमीत्याशङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति —
नन्विति ।