सर्वाविद्यातज्जनिर्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्नद्वयव्याजेन प्रतिपिपादयिषितमिति न पुनरुक्तिरिति सिद्धान्ती स्वाभिसन्धिमुद्घाटयति —
नैष देष इति ।
यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञातमित्याशङ्क्य तद्वक्तुं तार्तीयमर्थमनुवदति —
इह हीति ।
विद्याविषयनिर्णयस्य कर्तव्यत्वमत्र न प्रतिभातीत्याशङ्क्याऽऽह —
तन्निर्णयाय चेति ।
अन्यथा प्रक्रमभङ्गः स्यादिति भावः ।
किं तद्याथात्म्यं तदाह —
तस्य चेति ।
कथं यथोक्तयाथात्म्यव्याख्यानोपयोगित्वं प्रश्नयोरित्याशङ्क्य तयोः श्रौतमर्थमाह —
तत्रेति ।
प्रश्नप्रवृत्तिमुक्त्वा प्रतिवचनप्रवृत्तिमाह —
सेति ।
निवर्तयितव्येति तत्प्रवृत्तिरिति शेषः ।
संप्रति प्रतिवचनयोस्तात्पर्यमाह —
नायमिति ।
स्वात्मन्येवाभूदित्यत्र प्रमाणमाह —
स्वात्मानमिति ।
सुषुप्तौ स्वात्मन्येव स्थितिरतःशब्दार्थः ।
प्रबोधदशायामात्मन एवाऽऽगमनापादानत्वमित्यत्र मानत्वेनान्तरश्रुतिमुत्थापयति —
तच्छ्रुत्यैवेति ।
स्थित्यागत्योरात्मन एवावधित्वमित्यत्रोपपत्तिमाह —
आत्मेति ।
वस्त्वन्तराभावस्यासिद्धिं शङ्कित्वा दूषयति —
नन्वित्यादिना ॥१९॥