औपाधिको दृष्ट्यादिभेदो न वास्तवोऽस्तीत्युपपाद्य वृत्तमनुद्रवति —
जाग्रदिति ।
यत्रेत्युत्तरवाक्यव्यावर्त्यामाशङ्कां दर्शयति —
नन्विति ।
किमस्य विशेषविज्ञानराहित्यं स्वरूपं किं वा विशेषविज्ञानवत्वम् । आद्ये जाग्रत्स्वप्नयोरनुपपत्तिः । द्वितीये सुषुप्तेरसिद्धिरिति भावः ।
प्रतीचश्चिन्मात्रज्योतिषो विशेषविज्ञानराहित्यमेव स्वरूपं तथाऽपि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमाश्रित्यावस्थाद्वयं सिध्यतीत्युत्तरवाक्यमवलम्ब्योत्तरमाह —
उच्यत इत्यादिना ।
तच्चेत्याविद्यं दर्शनमित्यर्थः ॥ ३१ ॥