पूर्वोक्तवस्तूपसंहारार्थं सलिलवाक्यमुत्थापयति —
यत्रेत्यादिना ।
तेनाविद्यायाः शान्तत्वेनेति यावत् । वस्तुनोऽभावात्तत्रेति शेषः ।
सुषुप्ते विशेषविज्ञानाभावप्रयुक्तं फलमाह —
अत इति ।
पूर्वमेवास्यार्थस्योक्तत्वं द्योतयितुं हि शब्दः । संपरिष्वङ्गफलं समस्तत्वमपरिच्छिन्नत्वं तत्फलं संप्रसन्नत्वम् । असंप्रसादो हि परिच्छेदाभिमानकृतः ।
संप्रसन्नत्वे हेत्वन्तरमाह —
आप्तकाम इति ।
तदेव संप्रसन्नत्वं दृष्टान्तेन स्पष्टयति —
सलिलवदिति ।
उक्तेऽर्थे वाक्याक्षराणि योजयति —
सलिल इवेति ।
द्वितीयस्याभावं सुषुप्ते व्यक्तीकरोति —
अविद्ययेति ।
अद्रष्टा द्रष्टेति वा छेदः ।
एकोऽद्वैत इत्यभ्यासस्तात्पर्यलिङ्गं तस्य परमपुरुषार्थत्वं दर्शयन्कूटस्थत्वमाह —
एतदिति ।
किमिति षष्ठीसमासमुपेक्ष्य कर्मधारयो गृह्यते तत्राऽऽह —
पर एवेति ।
अस्मिन्काले सुषुप्त्यवस्थायामित्येतत् ।
परमत्वं साधयति —
यास्त्विति ।
प्रस्तुतं समस्तात्मभावं विशेषविज्ञानराहित्येन विशिनष्टि —
यत्रेति ।
सर्वात्मभावाख्यस्य लोकस्य परमत्वमुपपादयति —
येऽन्य इति ।
मीयते परिच्छिद्यते साध्यत इति यावत् ।
सौषुप्तस्य सर्वात्मभावस्य परमानन्दत्वं विशदयति —
यानीति ।
आत्मनोऽनवच्छिन्नानन्दत्वे छान्दोग्यश्रुतिं संवादयति —
यो वै भूमेति ।
ननु वैषयिकमेकं सुखामात्मरूपं चापरमिति सुखभेदाङ्गीकारादपसिद्धान्तः स्यादित्याशङ्क्य मुख्यामुख्यभेदेन तदुपपत्तेर्मैवमित्याह —
यत्रेत्यदिना ।
किञ्च वस्तुतो नास्त्येवाऽऽत्मसुखातिरिक्तं वैषयिकं सुखमित्याह —
एतस्येति ।
ब्रह्मातिरिक्तचेतनाभावे कान्युपजीविकानि स्युरित्याशङ्क्य परिहरति —
कानीत्यादिना ।
विभाव्यमानामानन्दस्य मात्रामिति पूर्वेण संबन्धः ॥ ३२ ॥