स यो मनुष्याणामित्यदिवाक्यतात्पर्यमाह —
यस्येति ।
यथा सैन्धवावयवैः सैन्धवाचलं लोको बोधयति तथा तस्याऽऽनन्दस्य मात्रा नामावयवास्तत्प्रदर्शनद्वारेणावयविनं परमानन्दमधिगमयितुमिच्छन्ननन्तरो ग्रन्थः प्रवृत्त इत्यर्थः ।
तात्पर्यमुक्त्वाऽक्षराणि व्याचष्टे —
स यः कश्चिदित्यादिना ।
राद्धत्वमविकलत्वं चेत्समृद्धत्वेन पुनरुक्तिरित्याशङ्क्याऽऽह —
समग्रेति ।
तदेव समृद्धत्वमपीत्याशङ्क्य व्याकरोति —
उपभोगेति ।
अन्तर्बहिःसंपत्तिभेदादपुनरुक्तिरिति भावः ।
न केवलमुक्तमेव तस्य विशेषणं किन्तु विशेषणान्तरं चास्तीत्याह —
किञ्चेति ।
विशेषणतात्पर्यमाह —
दिव्येति ।
तदनिवर्तने त्वस्य वक्ष्यमाणगन्धर्वादिष्वन्तर्भावः स्यादिति भावः । अतिशयेन संपन्न इति शेषः ।
अभेदनिर्देशस्याभिप्रायमाह —
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः । आत्मनः सकाशादानन्दस्येति शेषः ।
औपचारिकत्वमभेदनिर्देशस्य भविष्यतीत्याशङ्क्याऽऽह —
परमानन्दस्येति ।
तस्यैव विषयत्वं विषयित्वमिति स्थिते फलितमाह —
तस्मादिति ।
यथोक्तो मनुष्यो न दृष्टिपथमवतरतीत्याशङ्क्याऽऽह —
युधिष्ठिरादीति ।
अथ ये शतं मनुष्याणामित्यादेस्तात्पर्यमाह —
दृष्टमिति ।
शतगुणेनोत्तरत्राऽऽनन्दस्योत्कर्षप्रदर्शनक्रमेण परमानन्दमुन्नीय तमधिगमयत्युत्तरेण ग्रन्थेनेति संबन्धः ।
परमानन्दमेव विशिनष्टि —
यत्रेति ।
भेदः संख्याव्यवहारः ।
उक्तमेव प्रपञ्चयति —
यत्रेत्यादिना ।
परमानन्दे विवृद्धिकाष्ठायां हेतुमाह —
अन्येति ।
यद्यपि यस्येत्यादिनोक्तमेतत्तथाऽपीहाक्षरव्याख्यानावसरे तदेव विवृतमित्यविरोधः । तत्तदानन्दप्रदर्शनानन्तर्यं तत्र तत्राथशब्दार्थः । तत्तद्वाक्योपक्रमो वा । एवम्प्रकारत्वं समृद्धत्वादि । पितृणामानन्द इति संबन्धः । श्राद्धादिकर्मभिरित्यादिशब्देन पिण्डपितृयज्ञादि गृह्यते ।
के ते कर्मदेवा नाम तत्राऽऽह —
अग्निहोत्रादीति ।
यथा गन्धर्वानन्दः शतगुणीकृतः कर्मदेवानामेक आनन्दस्तथा कर्मदेवानन्दः शतगुणीकृतः सन्नाजानदेवानामेक आनन्दो भवतीत्याह —
तथैवेति ।
कुत्र वीततृष्णत्वं तत्राऽऽह —
आजानदेवेभ्य इति ।
श्रोत्रियादिवाक्यस्य प्रकृतासंगतिमाशङ्क्याऽऽह —
तस्य चेति ।
एवम्भूतस्य विशेषणत्रयविशिष्टस्येति यावत् ।
प्रजापतिलोकशब्दस्य ब्रह्मलोकाशब्दादर्थभेदमाह —
विराडिति ।
यथा विराडात्मन्याजानदेवानन्दः शतगुणीकृतः सन्नेक आनन्दो भवति तथा विराडात्मोपासिता श्रोत्रियत्वादिविशेषणो विराजा तुल्यानन्दः स्यादित्याह —
तथेति ।
तच्छतगुणीकृतेति तच्छब्दो विराडानन्दविषयः ।
श्रोत्रियत्वादिविशेषणवानपि हिरण्यगर्भोपासकस्तेन तुल्यानन्दो भवतीत्याह —
यश्चेति ।
हिरण्यगर्भानन्दादुपरिष्टादपि ब्रह्मानन्दे गणितभेदे प्राकरणिके प्राप्ते प्रत्याह —
अतः परमिति ।
एषोऽस्य परम आनन्द इत्युपक्रम्य किमित्यानन्दान्तरमुपदर्शितमित्याशङ्क्याऽऽह —
एष इति ।
तथाऽपि सौषुप्तं सर्वात्मत्वमुपेक्षितमिति चेन्नेत्याह —
यस्य चेति ।
प्रकृतस्य ब्रह्मानन्दस्यापरिच्छिन्नत्वमाह —
तत्र हीति ।
अनवच्छिन्नत्वफलमाह —
भूमत्वादिति।
ब्रह्मानन्दादितरे परिच्छिन्ना मर्त्याश्चेत्याह —
इतर इति ।
अथ यत्रान्यत्पश्यतीत्यादिश्रुतेरिति भावः ।
श्रोत्रियादिपदानि व्याख्याय तात्पर्यं दर्शयति —
अत्र चेति ।
मध्ये विशेषणेषु त्रिष्विति यावत् । तुल्ये सर्वपर्यायेष्विति शेषः ।
विशेषणान्तरे विशेषमाह —
अकामहतत्वेति ।
यथोक्तं विभागमुपपादयितुं सिद्धमर्थमाह —
अत्रैतानीति ।
यश्चेत्यादिवाक्यं सप्तम्यर्थः । तस्य तस्याऽऽनन्दस्येति दैवप्राजापत्यादिनिर्देशः ।
अर्थादभिहितत्वे दृष्टान्तमाह —
यथेति।
ये कर्मणा देवत्वमित्यादिश्रुतिसामर्थ्याद्देवानन्दाप्तौ यथा कर्माणि साधनान्युक्तानि तथा यश्चेत्यादिश्रुतिसामर्थ्यादेतान्यपि श्रोत्रियत्वादीनि तत्तदानन्दप्राप्तौ साधनानि विवक्षितानीत्यर्थः ।
ननु त्रयाणामविशेषश्रुतौ कथं श्रोत्रियत्वावृजिनत्वयोः सर्वत्र तुल्यत्वं न हि ते पूर्वभूमिषु श्रुते तथा चाकामहतत्ववदानन्दोत्कर्षे तयोरपि हेतुतेति तत्राऽऽह —
तत्र चेति ।
निर्धारणार्था सप्तमी । न हि श्रोत्रियत्वादिशून्यः सार्वभौमादिदिसुखमनुभवितुमुत्सहते । तथा च सर्वत्र श्रोत्रिन्द्रियत्वादेस्तुल्यत्वान्न तदानन्दातिरेकप्राप्तावसाधारणं साधनमित्यर्थः ।
यदुक्तमानन्दशतगुणवृद्धिहेतुरकामहतत्वकृतो विशेष इति तदुपपादयति —
अकामहतत्वं त्विति ।
पूर्वपूर्वभूमिषु वैराग्यमुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनं वैराग्यस्य तरतमभावेन परमकाष्ठोपपत्तेर्निरतिशयस्य तस्य परमानन्दप्राप्तिसाधनत्वसंभवादित्यर्थः ।
यश्चेत्यादिवाक्यस्येत्थं तात्पर्यमुक्त्वा प्रकृते परमानन्दे विद्वदनुभवं प्रमाणयति —
स एष इति ।
निरतिशयमकामहतत्वं परमानन्दप्राप्तिहेतुरित्यत्र प्रमाणमाह —
तथा चेति ।
प्रकृतं प्रत्यग्भूतं परमानन्दमेष इति परामृशति ।
श्रुतिर्मेधावीत्याद्या तां व्याचष्टे —
नेत्यादिना ।
तथाऽपि किं तद्भयकारणं तदाह —
यद्यदिति ।
मेधावित्वात्प्रज्ञातिशयशालित्वादिति यावत् ।
तदेव भयकारणं प्रकटयति —
सर्वमिति ॥ ३३ ॥