व्याख्यानप्रकारमेवाऽऽह —
आत्मनीति ।
दृष्टे सर्वमिदं विदितं भवतीत्युत्तरत्र संबन्धः ।
केनोपायेनाऽऽत्मनि दृष्टे सर्वं दृष्टं भवतीत्युपायं पृच्छति —
कथमिति ।
आत्मदर्शनोपायं श्रवणादिकं दर्शयन्नुत्तरमाह —
उच्यत इति ।
उक्तोपायफलं प्रश्नपूर्वकमाह —
किमित्यादिना ।
इदं सर्वमित्यनूद्य तस्यार्थमाह —
यदात्मनोऽन्यदिति ।
तदात्मनि दृष्टे दृष्टं स्यादिति शेषः ।
कथमन्यस्मिन्दृष्टे सत्यन्यद्दृष्टं भवति तत्राऽऽह —
आत्मव्यतिरेकेणेति ॥ ६ ॥७॥८॥९॥१०॥