अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह —
सैषेति ।
आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह —
मूर्तेति ।
भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह —
रसेति ।
तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः ।
सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —
तथेति ।
आदित्यस्य स्वातन्त्र्यं वारयति —
तद्वा इति ।
सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति —
किं पुनरित्यादिना ।
चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —
कथमित्यादिना ।
श्रोतरि श्रद्धाभावे हेतुमाह —
श्रोतुरिति ।
द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह —
न त्विति ।
क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —
तस्मान्नेति ।
विश्वासातिशयफलमाह —
तस्मादिति ।
आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह —
उक्तं चेति ।
सत्यस्य स्वातन्त्र्यं प्रत्याह —
तद्वा इति ।
सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह —
तथा चेति ।
सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् ।
सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।
तदेवोपपादयति —
लोकेऽपीति ।
तदेव व्यतिरेकमुखेनाऽऽह —
न हीति ।
एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —
एवमिति ।
तस्मिन्नर्थे वाक्यं योजयति —
सैषेति ।
गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —
अत इति ।
तदेव स्पष्टयति —
यस्मिन्नित्यादिना ।
गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह —
सा हैषेति ।
प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः ।
ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —
स आचार्य इति ।
पच्छः पादशः ।
सावित्र्या गायत्रीत्वं साधयति —
स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥