बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
‘जनको ह वैदेहः’ इत्यादि याज्ञवल्कीयं काण्डमारभ्यते ; उपपत्तिप्रधानत्वात् अतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता ; मधुकाण्डं हि आगमप्रधानम् ; आगमोपपत्ती हि आत्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् ; ‘श्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति ह्युक्तम् ; तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते । आख्यायिका तु विज्ञानस्तुत्यर्था उपायविधिपरा वा ; प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टः — दानम् ; दानेन ह्युपनमन्ते प्राणिनः ; प्रभूतं हिरण्यं गोसहस्रदानं च इहोपलभ्यते ; तस्मात् अन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्था आख्यायिका आरब्धा । अपि च तद्विद्यसंयोगः तैश्च सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः ; तच्च अस्मिन्नध्याये प्राबल्येन प्रदर्श्यते ; प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः । तस्मात् विद्याप्राप्त्युपायप्रदर्शनार्थैव आख्यायिका ॥
ओं जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कःस्विदेषां ब्राह्मणानामनूचानतम इति स ह गवां सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥
जनको नाम ह किल सम्राट् राजा बभूव विदेहानाम् ; तत्र भवो वैदेहः ; स च बहुदक्षिणेन यज्ञेन — शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञः, अश्वमेधो वा दक्षिणाबाहुल्यात् बहुदक्षिण इहोच्यते — तेनेजे अयजत् । तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणाः — तेषु हि विदुषां बाहुल्यं प्रसिद्धम् — अभिसमेताः अभिसङ्गता बभूवुः । तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य, को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव ; कथम् ? कःस्वित् को नु खलु एषां ब्राह्मणानाम् अनूचानतमः — सर्व इमेऽनूचानाः, कः स्विदेषामतिशयेनानूचान इति । स ह अनूचानतमविषयोत्पन्नजिज्ञासः सन् तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसाम् अवरुरोध गोष्ठेऽवरोधं कारयामास ; किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते — पलचतुर्थभागः पादः सुवर्णस्य, दश दश पादा एकैकस्या गोः शृङ्गयोः आबद्धा बभूवुः, पञ्च पञ्च पादा एकैकस्मिन् शृङ्गे ॥
तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नामो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ २ ॥
गा एवमवरुध्य ब्राह्मणांस्तान्होवाच, हे ब्राह्मणा भगवन्तः इत्यामन्त्र्य — यः वः युष्माकं ब्रह्मिष्ठः — सर्वे यूयं ब्रह्माणः, अतिशयेन युष्माकं ब्रह्मा यः — सः एता गा उदजताम् उत्कालयतु स्वगृहं प्रति । ते ह ब्राह्मणा न दधृषुः — ते ह किल एवमुक्ता ब्राह्मणाः ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृषुः न प्रगल्भाः संवृत्ताः । अप्रगल्भभूतेषु ब्राह्मणेषु अथ ह याज्ञवल्क्यः स्वम् आत्मीयमेव ब्रह्मचारिणम् अन्तेवासिनम् उवाच — एताः गाः हे सोम्य उदज उद्गमय अस्मद्गृहान्प्रति, हे सामश्रवः — सामविधिं हि शृणोति, अतः अर्थाच्चतुर्वेदो याज्ञवल्क्यः । ताः गाः ह उदाचकार उत्कालितवानाचार्यगृहं प्रति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः । तेषां क्रोधाभिप्रायमाचष्टे — कथं नः अस्माकम् एकैकप्रधानानां ब्रह्मिष्ठोऽस्मीति ब्रुवीतेति । अथ ह एवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विक् अश्वलो नाम बभूव आसीत् । स एवं याज्ञवल्क्यम् — ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्च धृष्टः — याज्ञवल्क्यं पप्रच्छ पृष्टवान् ; कथम् ? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति — प्लुतिः भर्त्सनार्था । स होवाच याज्ञवल्क्यः — नमस्कुर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति । तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान्मनो होता अश्वलः ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽयमग्निः स होता स मुक्तिः सातिमुक्तिः ॥ ३ ॥
याज्ञवल्क्येति होवाच । तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः उद्गीथप्रकरणे सङ्क्षेपतः ; तस्यैव परीक्षाविषयोऽयमिति तद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते । यदिदं साधनजातम् अस्य कर्मणः ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं व्याप्तम् , न केवलं व्याप्तम् अभिपन्नं च मृत्युना वशीकृतं च — केन दर्शनलक्षणेन साधनेन यजमानः मृत्योराप्तिमति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः । ननु उद्गीथ एवाभिहितम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति — बाढमुक्तम् ; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः । होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः । एतस्यार्थं व्याचष्टे — कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते — वाग्वै यज्ञस्य यजमानस्य, ‘यज्ञो वै यजमानः’ (शत. ब्राह्म. १४ । २ । २ । २४) इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे ; कथम् ? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽग्निः अधिदैवतम् ; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम् ; स चाग्निः होता, ‘अग्निर्वै होता’ (शत. ब्रा. ४ । २ । ६) इति श्रुतेः । यदेतत् यज्ञस्य साधनद्वयम् — होता च ऋत्विक् अधियज्ञम् , अध्यात्मं च वाक् , एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् ; तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति ; तदेतदाह — स मुक्तिः स होता अग्निः मुक्तिः अग्निस्वरूपदर्शनमेव मुक्तिः ; यदैव साधनद्वयमग्निरूपेण पश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपात् आधिभौतिकाच्च ; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य । सा अतिमुक्तिः — यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्तिसाधनमित्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः ; या असौ मुक्तिः अधिदैवतदृष्टिः सैव — अध्यात्माधिभूतपरिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते ; तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह । यजमानस्य हि अतिमुक्तिः वागादीनामग्न्यादिभावः इत्युद्गीथप्रकरणे व्याख्यातम् ; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम् , न तद्विशेषः ; वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते ; मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता ‘मृत्युमतिक्रान्तो दीप्यते’ (बृ. उ. १ । ३ । १२), (बृ. उ. १ । ३ । १३), (बृ. उ. १ । ३ । १४), (बृ. उ. १ । ३ । १५), (बृ. उ. १ । ३ । १६), इत्याद्या ॥
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः ॥ ४ ॥
याज्ञवल्क्येति होवाच । स्वाभाविकात् अज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता ; तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य ; तस्मात् पृथक् कालादतिमुक्तिर्वक्तव्येत्यत आह — यदिदं सर्वमहोरात्राभ्यामाप्तम् , स च कालो द्विरूपः — अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च ; तत्र अहोरात्रादिलक्षणात्तावदतिमुक्तिमाह — अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च — यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च ; शिष्टान्यक्षराणि पूर्ववन्नेयानि ; यजमानस्य चक्षुरध्वर्युश्च साधनद्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः — सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः ; सैव मुक्तिरेव अतिमुक्तिरिति पूर्ववत् ; आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः ॥ ५ ॥
इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते — यदिदं सर्वम् — अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम् ; तासां तु वृद्धिक्षयोपगमनेन प्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता ; अतः तदापत्त्या पूर्वपक्षापरपक्षात्ययः, आदित्यापत्त्या अहोरात्रात्ययवत् । तत्र यजमानस्य प्राणो वायुः, स एवोद्गाता — इत्युद्गीथब्राह्मणेऽवगतम् , ‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४) इति च निर्धारितम् ; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः’ इति च ; प्राणवायुचन्द्रमसामेकत्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः — एवंमन्यमाना श्रुतिः वायुना अधिदैवतरूपेणोपसंहरति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ; तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः । अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिः मुक्तिरतिमुक्तिश्च ; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति — न श्रुत्योर्विरोधः ॥
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६ ॥
मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य । सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति — अतिमुच्यते — इत्युच्यते — यदिदं प्रसिद्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव - शब्दात् अस्त्येव तत्रालम्बनम् , तत्तु न ज्ञायते इत्यभिप्रायः । यत्तु तत् अज्ञायमानमालम्बनम् , तत् सर्वनाम्ना केनेति पृच्छ्यते, अन्यथा फलप्राप्तेरसम्भवात् ; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं तदिति प्रश्नविषयः ; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति — स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः । ब्रह्मणा ऋत्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः, सोऽसौ चन्द्रः अधिदैवम् ; मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ; स एव चन्द्रमा ब्रह्मा ऋत्विक् तेन — अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः । इतीत्युपसंहारार्थं वचनम् ; इत्येवं प्रकारा मृत्योरतिमोक्षाः ; सर्वाणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहारः — इत्यतिमोक्षाः — एवं प्रकारा अतिमोक्षा इत्यर्थः । अथ सम्पदः अथ अधुना सम्पद उच्यन्ते । सम्पन्नाम केनचित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय सम्पादनम् , सम्पत्फलस्यैव वा ; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां केनचिद्वैगुण्येनासम्भवः ; तत् इदानीमाहिताग्निः सन् यत्किञ्चित्कर्म अग्निहोत्रादीनां यथासम्भवमादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति, तदेव सम्पादयति ; अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि असम्भवः — तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् , यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् ; तस्मात् तेषां सम्पदैव तत्फलप्राप्तिः, तस्मात्सम्पदामपि फलवत्त्वम् , अतः सम्पदं आरभ्यन्ते ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥
याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे — कतिभिः कतिसङ्ख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक् , अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति ; आह इतरः — तिसृभिः ऋग्जातिभिः — इति — उक्तवन्तं प्रत्याह इतरः — कतमास्तास्तिस्र इति ; सङ्ख्येयविषयोऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः । पुरोनुवाक्या च — प्राग्यागकालात् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते ; यागार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः याज्या ; शस्त्रार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः शस्या ; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति । किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति — अतश्च सङ्ख्यासामान्यात् यत्किञ्चित्प्राणभृज्जातम् , तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति — कति आहुतिप्रकाराः ? तिस्र इति ; कतमास्तास्तिस्र इति पूर्ववत् । इतर आह — या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधिशेरते पयःसोमाहुतयः । किं ताभिर्जयतीति ; ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति ; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः — फलं च देवलोकाख्यं उज्ज्वलमेव ; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानाः, ता एताः — साक्षाद्देवलोकस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते — इत्येवं सम्पादयति । या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्वसामान्येन ; पितृलोकसम्बद्धायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां ‘हा हताः स्म, मुञ्च मुञ्च’ इति शब्दो भवति ; तथा अवदानाहुतयः ; तेन पितृलोकसामान्यात् , पितृलोक एव मया निर्वर्त्यते - इति सम्पादयति । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्युपरिसम्बन्धसामान्यात् ; अध इव हि अध एव हि मनुष्यलोक उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य ; अतः मनुष्यलोक एव मया निर्वर्त्यते — इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति कतमा सैकेति मम एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति । कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् — एकया हि देवतया गोपायत्यसौ ; एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः ; तस्मात् पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु — कतिभिः कति तिसृभिः तिस्रः — इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ; अथवा प्रतिवादिव्यामोहार्थं बहुवचनम् । इतर आह — एकयेति ; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति । कतमा सैकेति — मन एवेति, मनः सा देवता ; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ‘तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा’ (छा. उ. ४ । १६ । १), (छा. उ. ४ । १६ । २) इति श्रुत्यन्तरात् ; तेन मन एव देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम् । तच्च मनः वृत्तिभेदेनानन्तम् ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; प्रसिद्धं मनस आनन्त्यम् ; तदानन्त्याभिमानिनो देवाः ; अनन्ता वै विश्वे देवाः — ‘सर्वे देवा यत्रैकं भवन्ति’ इत्यादिश्रुत्यन्तरात् ; तेन आनन्त्यसामान्यात् अनन्तमेव स तेन लोकं जयति ॥
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वल उपरराम ॥ १० ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रियाः स्तोष्यतीति अयमुद्गाता । स्तोत्रिया नाम ऋक् सामसमुदायः कतिपयानामृचाम् । स्तोत्रिया वा शस्या वा याः काश्चन ऋचः, ताः सर्वास्तिस्र एवेत्याह ; ताश्च व्याख्याताः — पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम् — यत्किञ्चेदं प्राणभृत्सर्वं यजतीति तत् केन सामान्येनेति ; उच्यते — कतमास्तास्तिस्र ऋचः या अध्यात्मं भवन्तीति ; प्राण एव पुरोनुवाक्या, प - शब्दसामान्यात् ; अपानो याज्या, आनन्तर्यात् — अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम् ; व्यानः शस्या — ‘अप्राणन्ननपानन्नृचमभिव्याहरति’ (छा. उ. १ । ३ । ४) इति श्रुत्यन्तरात् । किं ताभिर्जयतीति व्याख्यातम् । तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद्व्याख्यातम् ; लोकसम्बन्धसामान्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति ; अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् ; द्युलोकं शस्यया ऊर्ध्वत्वसामान्यात् । ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वल उपरराम — नायम् अस्मद्गोचर इति ॥
इति तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥
प्तमाप्तो मधुकाण्डार्थो याज्ञवल्कीयकाण्डगः ।।
अतः परं प्रयत्नेन श्रुत्या व्याख्यायते स्फुटम् ।। १ ।।
याज्ञवल्कीयमेतस्मान्मधुकाण्डादनन्तरम् ।।
काण्डं विचारभूयिष्ठमधुनाऽऽरभ्यते परम् ।। २ ।।
ननु पूर्वं य उक्तोऽर्थः स एवेहापि भण्यते ।।
अनुरुक्तं न च न्याय्यमेकप्रवचनस्थयोः ।। ३ ।।
एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता ।।
याज्ञवल्कीयकाण्डस्य ह्युपपत्तिप्रधानतः ।। ४ ।।
आगमोक्तिप्र नित्वं मधुकाण्डस्य वर्णितम् ।।
आगमार्थविशुद्ध्यर्थं युक्तीरत्र प्रवक्ष्यति ।। ५ ।।
न चाऽऽगमस्य स्वातन्त्रयं युक्त्युक्तेरपनुद्यते ।।
अर्थान्तरत्वाद्युक्तीनां प्रमाणेभ्यो यतस्ततः ।। ६ ।।
सर्वप्रमाणशेषत्वं युक्तीनामुपवर्णितम् ।।
शास्रान्तरेष्वपि तथा नातः स्वातन्त्र्यखण्डनम् ।। ७ ।।
पदार्थविपया चेयं युक्तिस्तर्कोऽभिधीयते ।।
वाक्यार्थस्त्वागमादेव निरपेक्षमतो वचः ।। ८ ।।
पौरुषेयवचःस्वेव युक्तेः प्राधान्यमिष्यते ।।
अनरोक्तौ तु तात्पर्यं युक्तेरर्थो न युक्तितः ।। ९ ।।
प्रत्यक्षाद्यतिवर्तित्वाद्युक्त्यपेक्षा न विद्यते ।।
आगमार्थे, यथैवं स्याद्युक्त्यर्थे नाऽऽगमेक्षणम् ।। १० ।।
पुंस्वभावानुरोधेन युक्तिर्वेदेऽभिधीयते ।।
आगमस्य प्रवृत्तिस्तु मेयवृत्तव्यपेक्षया ।। ११ ।।
ननूक्ता मधुकाण्डेऽपि दुन्दुभ्याद्युपपत्तयः ।।
आगमैकप्रधानत्वं कथं तस्येति भण्यते ।। १२ ।।
नैष दोषो यतस्तत्र युक्तीनामप्रधानता ।।
प्राधान्यं याज्ञवल्कीये युक्तीनामभिधीयते ।। १३ ।।
युक्त्यागमौ हि संभूय करस्थामलकादिवत् ।।
सुसूक्ष्ममपि सद्वस्तु शक्तौ ज्ञापयितुं यतः ।। १४ ।।
युक्तयोऽतोऽभिधीयन्ते पूर्वपक्षादिसंश्रयाः ।।
याज्ञवल्कीय एतस्मिन्काण्डे जल्पोक्तिवर्त्मना ।। १५ ।।
उद्गीथप्रमुखा येऽर्था मधुकाण्डे पुरोदिताः ।।
तेषामेव विशुद्ध्यर्थं विचारः क्रियतेऽधुना ।। १६ ।।
दर्शनस्यास्य तेनात एकावाक्यत्वमिष्यते ।।
तथैवान्यपदार्थेषु तद्द्वयोरपि काण्डयोः ।। १७ ।।
यदिदं कर्मणोऽशेपसाधनं मृत्युनाऽऽप्लुतम् ।।
स्वामिमन्रर्त्विगग्न्यादि त्वभिपन्नं वशीकृतम् ।। १८ ।।
परिच्छेदकृदज्ञानं सासङ्गं मृत्युसंज्ञितम् ।।
केनायं यजमानोऽतो मृत्योराप्तेर्विमुच्यते ।। १९ ।।
यन्मर्त्यसाधनं साध्यं मर्त्यं तदपि जायते ।।
साधनानुमितं साध्यं मुक्तिः केनात उच्यते ।। २० ।।
होत्रर्त्विजाऽग्निना वाचा मृत्योराप्तेर्विमुच्यते ।।
इति प्रश्नप्रतिवचो याज्ञवल्क्योऽप्युवाच तम् ।। २१ ।।
प्रवक्त याज्ञवल्क्योऽत्र तं पृच्छन्त्यश्वलादयः ।।
सराजके समाजेऽयं विचारः क्रियते महान् ।। २२ ।।
यजमानस्य येयं वाग्घोता चैतद्दूयं यदा ।।
अधिदैवात्मना वेत्ति स होतैवंविधो भवेत् ।। ३३ ।।
अनन्तविग्रहः सोऽग्निर्होता मृत्योर्यथोदितात् ।।
यजमानस्य मुक्तिः स्यादतिमुक्तिस्तथैव च ।। २४ ।।
आसुरात्साधनाद्दैवप्राप्तिर्मुक्तिरिहोच्यते ।।
साध्यादप्यासुराद्दैवसाध्याप्तिरतिमुक्तिता ।। २५ ।।
यथोक्तोपासनादेव कैवल्यं चेद्विवक्ष्यते ।।
ब्रह्मविद्या किमर्थेयं नान्यन्मुक्तेः फलं ततः ।। २६ ।।
आसुरात्कर्मणो मृत्योरतिमुक्तिरिहोदिता ।।
कालात्कर्मातिरेकेण मृत्योमुक्तिरिहोच्यते ।। २७ ।।
प्रयोगसमवाय्येव द्रव्यकर्त्रादिसाधनम् ।।
तत्प्रयोगावसाने च सर्वं तदपवृज्यते ।। २८ ।।
प्रयोगावसितेस्तूर्ध्वं कालः प्राक्च प्रयोगतः ।।
क्षपयन्वर्ततेजस्रं सर्वं तत्कर्मसाधनम् ।। २९ ।।
तस्मात्कर्मातिरेकेण कालो मृत्युः प्रतीयताम् ।।
ततोऽपि मुक्तिर्वक्तव्येत्यत आरभ्यते परः ।। ३० ।।
कालश्च द्विविधः प्रोक्त एकोऽहोरात्रलक्षणः ।।
तिथ्यादिलक्षणश्चान्यस्ताभ्यां मुक्तिरिहोच्यते ।। ३१ ।।
उपस्थापयतः कर्म तथा क्षपयतो यतः ।।
अहोरात्रे ततो मृत्युस्ताभ्यां मुक्तिः कुतो भवेत् ।। ३२ ।।
अव्यात्मं चक्षुरध्वर्युरधियज्ञं द्वयं रविः ।।
साक्षादनन्तदेहोऽयमिति ध्यायन्विमुच्यते ।। ३३ ।।
आत्मावयव एवायं सूर्यश्चक्षुर्ममांशुमान् ।।
अध्वर्युरहमेवेति साक्षात्कृत्वा विमुच्यते ।। ३४ ।।
कलावृद्धिक्षयाभ्यां तु पक्षयोरुभयोस्तथा ।।
चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते ।। ३५ ।।
ह्रासवृद्ध्योर्यतः कर्ता वायुश्चन्द्रमसस्ततः ।।
वायुनैवोपसंहारः प्राणोद्गात्रोरयं कृतः ।। ३६ ।।
मनोऽध्यात्मं यदस्याभूद्ब्रह्मा चैवाधियज्ञगः ।।
तस्याधिदेवता चन्द्र इति माध्यंदिनश्रुतिः ।। ३७ ।।
कर्मतः कालतो मृत्योर्मुक्तोऽयं स्वर्गमेष्यति ।।
तं प्रयास्यति केनायमाक्रमेणेति पृच्छ्यते ।। ३८ ।।
स्वर्गलोकगतावत्र साधनं पृच्छ्यते यतः ।।
अन्तरिक्षमनाधारं गतौ हेतुनिषेधनम् ।। ३९ ।।
न तु देहग्रहे प्रश्नः सति गन्तरि पृच्छ्यते ।।
अग्न्यादिदृष्टिभिश्चास्य देहः प्राक्प्रतिपादितः ।। ४०।।
मनोऽधियज्ञं ब्रह्मैव ब्रह्मा चन्द्रोऽधिदैवतम् ।।
चन्द्रेण मनसा लोकमवष्टम्भेन यास्यति ।। ४१ ।।
अध्यात्मं प्राण एव स्यादुद्गाता योऽधियज्ञगः ।।
स वायुरिति पाठे स्याद्व्याख्या माध्यंदिने त्वियम् ।। ४२ ।।
यजमानश्रुतेरत्र पूर्वोद्गीथैकवाक्यतः ।।
यजमानो जपस्तत्र ज्ञानं नेत्यवसीयताम् ।। ४३ ।।
संभाव्यते न यत्तत्र यजमानस्य मानतः ।।
अस्तु कामं तदुद्गातुर्नतु तद्यजमानगम् ।। ४४ ।।
इतीत्युक्तपरामर्शो ह्यतिदेशार्थ उच्यते ।।
इतोऽन्यत्रातिमोक्षा ये तेऽप्येवमिति वीक्ष्यताम् ।। ४५ ।।
अधिदैवात्मना तेषां दृष्टयः साधनात्मनाम् ।।
अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव लक्षणात् ।। ४६ ।।
फलवत्कर्मणां क्वापि किंचित्सामान्यसंश्रयात् ।।
संपत्तिमर्हतां संपदल्पीयःकर्मसूच्यते ।। ४७ ।।
यदि वा तत्फलस्यैव किंचित्सामान्यवर्त्मना ।।
संपादनं भवेत्संपदग्निहोत्रादिकर्मणि ।। ४८ ।।
संपदा चेत्फलप्राप्तिरश्वमेधादिकर्मणाम् ।।
त्रयाणामपि वर्णानां तत्पाठः फलवान्भवेत् ।। ४९ ।।
नातिभारोऽस्ति नो बुद्धेः शास्रं चेत्तत्परं भवेत् ।।
विदुषां श्रेयसेऽतोऽध्वा न क्वचित्प्रतिहन्यते ।। ५० ।।
तिसृभिरिति संख्यार्थप्रश्ननिर्णयमब्रवीत् ।।
पुरोनुवाक्याद्युक्त्या तु संख्येयार्थविनिर्णयम् ।। ५१ ।।
त्रैलोक्यसंख्यासामान्यात्स्यात्सर्वप्राणभृज्जभः ।।
सर्वप्राणभृतां यस्मात्र्रिष्वेवैतेषु संभवः ।। ५२ ।।
उज्ज्वलत्वादिसामान्याद्देवलोकादिसंपदः ।।
फलसंपद एवैता नात्र कर्म विवक्ष्यते ।। ५३ ।।
दीप्तिर्नादोऽधःशयनमाज्यमांसपयोम्भसाम् ।।
देवलोकादिसंपत्स्याद्दीप्तिमत्त्वादिसंभवात् ।। ५४ ।।
वृत्त्यानन्त्यान्मनोऽनन्तं शब्दादीनामनन्ततः ।।
विश्वेदेवान्मनोवृत्तीः संपाद्याऽऽनन्त्यसाम्यतः ।। ५५ ।।
अनन्तमेव तेनासौ सम्यग्ज्ञानेन विन्दति ।।
लोकं यथोक्तदृष्टिः सन्यजमानः फलं स्वयम् ।। ५३ ।।
तिस्रः पुरोनुवाक्याद्या ऋचः पूर्वमुदीरिताः ।।
यास्ता एवात्र विज्ञेयाः स्तोत्रिया अपि नापराः ।। ५७ ।।
गीतयस्त्वधियज्ञं ता अध्यात्मं कास्तु ता इति ।।
प्राणापानव्यानरूपा अध्यात्मं ताः प्रचक्षते ।। ५८ ।।
जयो भूरादिलोकानां संख्यादित्वादिसाम्यतः ।।
अश्वलोऽप्युपरेमेऽथ स्वोक्तप्रश्नविनिर्णयात् ।। ५९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य प्रथममश्वलब्राह्मणम्