छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥
सर्वं वागाद्यग्न्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते । श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनाय आख्यायिका । सत्यकामो ह नामतः, ह—शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयाञ्चक्रे आमन्त्रितवान् । ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले, किङ्गोत्रोऽहं किमस्य मम गोत्रं सोऽहं किङ्गोत्रो नु अहमस्मीति ॥

पूर्वेण सम्बन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह –

सर्वमिति ।

एकीकृत्य कारणरूपेणैक्यमादायेत्यर्थः ।

तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह –

श्रद्धातपसोरिति ।

ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति –

स्वाध्यायेति ।

आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति –

किङ्गोत्रोऽहमिति ॥१॥